पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पदविन्यासग्रामपुरादिलक्षणम् ] उत्तरार्धे पञ्चविंशः पटलः ।

महापीठं षोडशाभिः पञ्चविंशतिभिः पदैः ।
उपपीठं तु षट्त्रिंशत्पदैः स्यादुग्रपीठम् ।। ५ ।। 

स्थण्डिलं ह्यूनपश्चाशन्मण्डूकं चाष्टकाष्टकैः । एकाशीतिपदैः ख्यातं क्षेत्रं परमशायिकम् ॥ ६ ॥

आसनं शतकोष्ठैः स्याद् ग्रामाद्यं त्वेपुंसिद्ध्यति । 

चतुरश्राष्टदण्डा भूः काकणी तच्चतुर्गुणः ॥ ७ ॥ माषो वेदगुणं तस्माद् भवेद् वर्तनकाह्ययम् ।

तत्पञ्चगुणिता वाटी कुडुबं तच्चतुर्गुणम् ॥ ८ ॥
भूमानमेवं कथितं दण्डमानं तु कथ्यते ।
महाग्रामस्योत्तमस्य पर्यन्तो लक्षदण्डवान् ॥ ९ ॥
तस्माद् विंशतिसाहस्रदण्डड्रासात् क्रमेण तु ।
ग्रामाणां पञ्चधा मानं मुख्यं त्वेवमुदीरितम् ॥ १० ॥

दण्डविंशतिसाहस्राद् दण्डपञ्चशतस्य तु । क्रमह्रासाद् ग्राममानान्या पञ्चशतदण्डतः ॥ ११ ॥

चत्वारिंशत्प्रभेदानि मध्यमाने भवन्ति हि ।

ग्रामाधिवासक्षेत्रादेः सीमामानभिदं स्मृतम् ॥ १२ ॥ प्राकारान्तरथावाससीमामानमिहोच्यते । ग्रामश्च खेटकश्चाथ खर्वटं दुर्गमेव च ॥ १३ ॥ नगरं राजधानी च पत्तनं द्रोणिका मुखम् । शिबिरं स्कन्धवारश्च स्थानीयं च विडम्बकम् ॥ १४ ॥

निगमश्चाथ निर्दिष्टः स्याच्छाखानगरं ततः ।

एषां चतुर्दशानां च लक्षणं पृथगुच्यते ॥ १५ ॥ अष्टाष्टदण्डविस्तारो ग्रामः स्यादधमाधमः ।

द्विगुणत्रिगुणैौ तस्माद् ग्रामौ मध्योत्तमौ स्मृतौ ॥ १६ ॥

षट्पञ्चाशश्च द्विशतं दण्डाः खेटेऽधमे स्मृताः ।

विंशत्या त्रिशतैर्दण्डैर्मध्यश्चतुरशीतिभिः ॥ १७ ॥

२३५