पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२३४ ईशानशिवगुरुदेव पद्धतौ [क्रियापाद: यन्मध्यमामध्यमपर्वदैर्ध्यान्मानेन मात्राङ्गुलमायतं स्यात् ।

तत्पर्वमानेन तदेव तिर्ययात्राङ्गुलं तच्च तताभिधानम् ॥ ३१ ॥

देहोपलब्धाङ्गुलमिष्यते यत् तन्मानयुक्त्या प्रतिमासु विद्यात् ।

दण्डानामष्टकं रज्जुः सा च सीमादिषु स्मृता । 

किष्कुहस्तेन यानादिशयनीयादिसाधनम् ॥ ३२ ॥ अत्राह मयः इंति । "याने च शयने किष्कुः प्राजापत्यं विमानके ।

वास्तूनां तु धनुर्मुष्टिर्ग्रामादीनां धनुर्ग्रहः || 

सर्वेषामपि वास्तूनां किष्कुर्हस्तोऽथवा भवेत् ।" दण्डेन तु ग्रामनिवेशनाद्यं पुराणि खेटं निगमं च कुर्यात् ।

हस्तेन वेश्मादिषु मानमुक्तं स्वल्पेन चैवाङ्गुलक र्यवैर्वा ॥ ३३ ॥
देवालयगृहादीनि कुर्यान्मात्राङ्गुलेन हि ॥ ३४ ॥ 

कुण्डादिकानामपि मण्डलानां सर्वत्र मात्राङ्गुलमानतः स्यात् ।

निर्माणमित्यत्र यथावदुक्ता तत्तत्क्रियाभेदविशेषसिद्धिः ॥ ३५ ॥
इति श्रीमदीशान शिव गुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे शब्कुच्छायाङ्गुलादिविधिर्नाम चतुर्विंशः पटलः ॥

अथ पञ्चविंशः पटलः । अथातः पदविन्यासः कथ्यते वस्तुसिद्धये । सकलं पेचकं पीठं महापीठोपपीठके ॥ १ ॥ उग्रपीठं स्थण्डिलं च मण्डूकं परशायिकम् । आसनं चेति दशधा ग्रामादिन्यासचण्डितम् ॥ २ ॥ प्रान्तसूत्र चतुष्कान्तरेकं स्यात् सकलं पदम् ।

प्राच्योदीच्यैकसूत्रादिवृद्धया तत् स्याच्चतुष्पदम् ॥ ३ ॥
एवं प्रागुत्तरपदपङ्क्तिवृद्धिं क्रमानयेत् ।

चतुष्पदं पेचकं स्यात् पीठं नवपदं स्मृतम् ॥ ४ ॥ १, 'वो ॥ इति श्रीम' क. पाठः,