पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अङ्गुलादिविधिः] अत्र उत्तराधे चतुर्विश: पटलः । अर्धार्धपादमानेन मेषादिद्वादशस्वपि । दशके दशके त्वां नरच्छायामितिं त्यजेत् ॥ २१ ॥ समीक्ष्य भानोर्गमनं सराशिकं त्यजेत् पुरोक्ताङ्गुलमत्र- युक्तितः । २३३. ततस्तु काष्ठामुपगृह्य तद्वशाद् विसृज्य सूत्रं विदधीत वस्त्वलम् ॥ २२ ॥

स्थलं समं जलवशाल्लंम्बसूत्रात् स्थितार्जवम् ।

भुजासमत्वं स्यात् कर्णैस्त्रिनरात् तिर्यगार्जवम् ॥ २३ ॥ प्राचीसूत्रात् प्रसिद्ध्यन्ति दिशोऽन्याश्चतुरश्रगाः । शङ्कुच्छायाधिकारः । परमाणुरजोरोमलिक्षायू काय वाष्टकैः ॥ २४ ॥ क्रमान्मानाङ्गुलं ज्ञेयं वितस्तिर्द्वादशाङ्गुला ।

मानाङ्गुलद्वादशकं वितस्तिर्वितस्तियुग्मं खलु सोकष्कुंज्ञम् |
हस्तों भवेद्धस्तचतुष्टयं स्याद्धनुश्च दण्डोऽपि स एव नाम्ना ॥ २५ ॥ दण्डपञ्चाशतायामो गव्यूत्यर्धे निगद्यते ॥ २६ ॥

इति । द्विगुणं तत् तु गव्यूतिस्तद्वयं कोश उच्यते । योजनं तु चतुष्कोशं द्विष्क्रोशं चार्धयोजनम् || २७ ॥ "हस्तोऽङ्गुलविंशत्या चतुरुत्तरया चतुष्करो दण्डः ।

तद्विसहस्रं क्रोशो योजनमेकं चतुष्क्राशेम् !!"।

इति प्राजापत्याख्यहस्तः स्यात् पञ्चविंशतिकाङ्गुलः ।

षट्सप्ताधिकविंशत्या धनुर्मुष्टिधनुर्ग्रहो ॥ २८ ॥
आ सन्धेर्बद्धमुष्टिस्तु रत्निः कर उदाहृतः ।
स एवारत्निरुद्दिष्टा सृष्टा चेत् तत्कनिष्ठिका ॥ २९ ॥
प्रादेशतालगोकर्णवितस्त्यः स्युर्यथाक्रमम् ।

तर्जन्यादिकनिष्ठान्तमाङ्गुष्ठाग्रात् प्रसारिता ॥ ३० ॥ FF