पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

૨૨ / ईशान शिवगुरुदेवपद्धतौ [क्रियापादः प्रोक्तप्रमाणं शङ्कु विन्यस्य पूर्वाद्धे वापराह्ने छायायेष्वभिनिविष्टेषु त्रिषु त्रयो बिन्दवः कार्याः । तत एक बिन्दु मध्ये कृत्वेष्टप्रमाणेन वृत्तमालिखेत् । तावतैव द्वितीयं बिन्दुमवलम्ब्य द्वितीयं वृत्तं तद्वत् तृतीयं बिन्दु मध्ये कृत्वा तृतीयं वृत्तमालिखेत् । ततस्तावत्प्रमाणमेव वृत्तम् । तथाचालिखेद् यथा मध्यबि दुवृत्तं पार्श्वद्वयविन्दुवृत्तद्वयस्य खण्डमुत्पादयति । तथाकृते मत्स्यद्वयमुत्प- द्यते । तयोश्च यस्यां दिशि महदन्तरं ते मुखे भवतः । तयोर्यस्यां दिशि स- न्निकर्षस्ते पुच्छे भवतः । मुखयोः सूक्ष्मक लकौ विन्यस्य तयोः सूत्रे बद्ध्वा पुच्छमध्यगे निःसार्य स्वगत्यैकैकं नयेत् । तयोः सूत्रयोर्भुखपुच्छंगत्यनुसारेण यत्र सन्निपातः सा दक्षिणा दिग् भवति शङ्कुतल (न्यु ? दु) तर गोलस्थेऽर्के ततो दक्षिणगोलस्थे सवितरि । तथा मध्यगतसूत्रयोर्युति बिन्दुः शङ्कमूला- देवोत्तरा दिग्भवति । एवं शङ्कुमूलयुति बिन्द्ववगाहि सूत्रं प्रसार्य रेखां कुर्यात् सा दक्षिणोत्तरा दिग् भवति । तत एकैकं बिन्दु मध्ये कृत्वा वृत्तद्वयेन मत्स्य- मुत्पादयेत् । तस्य मुखपुच्छावगाहिसूत्रं पूर्वापरा दिग् भवति । एवं साक्षदशे दिक्साधनमुक्तम् । निरक्षदेशे तु पूर्वोक्तैव पूर्वापरा दिग् भवति । तत्सूत्रस्य मध्यविन्दौ स्थित्वा दशाङ्गुलमानेन सूत्रमध्ये पूर्वापरादौ कृत्वा तयोरङ्कयो- रन्तरसमानसूत्रमङ्कयो र्निधाय दक्षिणोत्तरयोः परिभ्रम्योत्पन्नयोर्मत्स्ययोः सूत्र- मास्फाल्य दक्षिणोत्तरा दिग् भवतीत्यलम् । अपिच नरच्छायानुसारेण कल्प्यं चार्कापसर्पणम् ॥ १६ ॥ गणयित्वा धनुर्ज्याविद् ज्ञेयं स्यादर्कमार्गयोः । अर्धाङ्गुलमपच्छाया वृषयुग्माङ्गनासु च ॥ १७ ॥

तुलालिचापेष्वृद्धा स्यार्द्ध ना कर्कि मृगादिषु ।

तच्च प्रतिदिनमिति यावत् । द्वयमेकं न नैकं द्वे नेत्राभिश्रुतिसंख्यया ॥ १८ ॥ वेदाग्निद्वयमानेन द्वयमेकं न किञ्चन । नैकनेत्राब्धिरामा क्षियुगबाणर्तुसंख्यया ॥ १९ ॥ षट्सताष्टकमानेन चाष्टर्षिरससंख्यया । ऋतुबाणश्रुतिसमं वेदाग्न्यक्षिमितं क्रमात् ॥ २० ॥ १. 'षुत्र' के. पाठ