सामग्री पर जाएँ

पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

शङ्कुच्छायाधिकारः ] उत्तरार्धे चतुर्विंश: पटलः । उक्तं चान्यैः विशेषः साक्षदेशानामस्त्येवार्कापसर्पणात् । "याति भानुरपमण्डलवृत्त्या दक्षिणोत्तर दिशोरनुवेलम् | तेन सा दिगनृजुः प्रतिभाति स्यादृजुः पुनरपक्रममौर्व्या ॥” २३१ इति । उत्तरगोलस्थ उत्तरां दिशमपक्रममण्डलेन गच्छति । दक्षिणगोलस्थो दक्षिणां दिशमपक्रममण्डलेन चरति । तस्मात् सा दिगनृजुः प्रतिभाति । तस्मा- दिदानीमपक्रमज्यया दिगार्जवं प्रतिपादयन्नाह - "छायानिर्गमनप्रवेशसमयार्काक्रान्तिजीवान्तरं क्षुण्णं सश्रवणेन लम्बकहृतं स्यादङ्गुलाद्यं फलम् | पश्चाद् बिन्दुरनेन रव्ययनतः सञ्चालयेद् व्यत्ययात् स्पष्टा प्राच्यपराथवायनवशात् प्राग्बिन्दुमुत्सारयेत् ॥”

इति । यावतीभिर्वृत्ताभिर्घटिकाभिर्वृत्तरेखां स्पृशति शङ्कुच्छाया यावतीभिः वृत्तान्निर्गच्छति स खलु च्छायानिर्गमनप्रवेशसमयः । तयोः कालयोरक- क्रान्तिजीवान्तरं नामार्कघटिकामानमित्यर्थः । तत् स्वश्रवणेन प्रवेशनिर्गम- नकालच्छायायाः कर्णेन गुणितं लम्बकहृतं लम्बज्यया हृतमङ्गुलाभ्यां फलं भवति । तेन फलेन पश्चाद् बिन्दुं प्राप्ताङ्गुलप्रमाणेन रवेरयनस्य व्यत्ययात् सञ्चालयेत् । अयनव्यत्ययश्चोत्तरायणे दक्षिणेन दक्षिणायने तूत्तरेण सचालये- दित्यर्थः । तथास्फालितं सूत्रं साक्षदेशे स्पृष्टा प्राची भवति । अथार्कावलम्ब- कैर्विनापि प्रकारान्तरेण दिक्परिज्ञानार्थमुच्यते-

छायात्रयामोद्भववृत्तमध्यस्पृवसूत्रयोर्यत्र युतिः प्रदेशे ! याम्योत्तरा शङ्कुदिशा ककुप् स्यात् क्रमेण सौम्येतरगोलयोः स्यात् ॥ १५ ॥

पूर्वकपाले वापरकपाले च्छायात्रयामं दृष्ट्वा तैर्वृत्तत्रये लिखिते यन्म- त्स्यद्वयमुत्पद्यते तयोर्मुखपुच्छानुसारिसूत्रद्वयं यस्मिन् प्रदेशे संयुक्तं तिष्ठति तत आरभ्य शङ्कुमूलपर्यन्तं सूत्रमास्फालयेत् । सा दक्षिणोत्तरा दिग् भवति । रवावुत्तरगोलस्थे शङ्कुमूलादू दक्षिणा भवति । दक्षिणगोलस्थे शङ्कुमूलादत्तरा भवति । अत्र पुनः स्पष्टमुच्यते । तद् - यथा-नलसमीकृते स्थले

१. 'र्भः छायात्रं तत्' क. पाठः. यथा -