पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

वसन्तपूजाधिकारः] उत्तरार्धे द्वाविंशः पटलः २२१ इति कालात्मानमशोकमूले समावाद्याभ्यर्च्य तत्रैव दक्षिणोत्तरकृतमण्डलयो- धन्योपरिसूत्रितो धूपितौ कुम्भौ मन्यजलादिपूण सहिस्ण्यकूर्चकुसुमौ फलव सनमाल्याक्षतालङ्कृतौ संस्थाप्य तयोर्दक्षिणे कुम्भे वसन्तम् उत्तरे कामं चाधा- रशक्त्यनन्तासनधर्मादिपीठरजस्तमस्सत्त्वमयपद्मविष्टरे तत्तन्नामभिरभ्यर्च्य वसन्ताय नमः इति तन्मूलमन्त्रः । ओं वां हृदयाय नमः इत्यादिभिः दीर्घ ... स्वरैः पञ्चाङ्गानि जातियुक्तानि परिकल्प्य अस्त्रशुद्धकर योर्ज्येष्ठादिकनिष्ठान्तं हृदयाद्यङ्गानि विन्यस्य, शिरोवक्त्रह्द्गुह्यपादेषु हृदयादिस्वस्थानेषु चाङ्गानि विन्यस्य मूलेन कुम्भे पूजितासने पुष्पाञ्जलिनाः पद्मद्वयवरदाभयकरं हेमवर्णं रक्तवसनगन्धमाल्यहेमकिरीटकुण्डलहाराङ्गदादिभिः समलङ्कृतं युवानं वसन्तं ध्यात्वा स्वहृदयादावाह्य स्थापनसान्निध्यादिकं विधाय तस्य दक्षिणतः पद्मावतीं वामतः कुसुमावतीं च रक्तशुक्लवर्णे समलङ्कृते देव्यौ चावाह्यार्थ्यादिभिर्ग- न्यादिभिश्व निवेद्यान्तं मूलमन्त्रेणाभ्यर्च्य ओं वसन्ताय नमस्तुभ्यं वृक्षगुल्मलताप्रिय ! | सहस्रमुखसंवाह! कामबन्धो! नमोऽस्तु ते ॥ २७ ॥ इत्यनेन पुष्पाञ्जलित्रयेण देवीभ्यां सहितं वसन्तमभिपूज्य तत्पद्मदलाग्रेषु तच्छक्तीर्वनदेवताः पूजयेत् । आह्वादिनीं गन्धवतीं सुरभीं चैव मालिनीम् । मदिरां मदयन्तीं च रमां पुष्पवतीं तथा ॥ २८ ॥ वासन्तीं चापि नवमीं स्वनाम्नाभ्यर्चयेत् क्रमात् । सर्वाः सुवेषाभरणा ललिताङ्गयः स्मिताननाः ।। २९ ॥ तदनु आरामस्थं दमनकमर्चयेत् । तत्र भैरवं शूलकपालहस्तं रक्तवर्णं रक्तगन्धमाल्याम्बरालङ्कृतं सद्यः कृत्तसद्भटमुण्डमालाधरं शिञ्जन्नूपुरकिङ्कि- णीकमाक्रान्तकान्तपादुकं खड्गशूलडमरुकपाशहस्तं विरूढप्रभूतदमनकाङ्कि- तशिरसं ध्यात्वानेनार्घ्यादिभिर्गन्धादिभिश्चार्चयेत् । म कामभस्मसमुद्भूत! रतिबाप्पजलाप्लुत! | ऋषिगन्धर्वदेवादिविमोहन ! नमोऽस्तु ते ॥ ३० ॥