पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धतौ त्वयार्चितनाङ्ग सहोमया मय। वरं द्वितीयं तव दीयते पुनः । तथा हरिर्ब्रह्ममुखाश्च देवतास्त्वयार्चिताः सन्त्वभिवाञ्छितप्रदाः ॥ १७ ॥ न कुर्वते येऽपि च पर्व दामनं नरा वसन्ते मम शासनातिगाः । तदर्चनापुण्यफलं वसन्तजं गृहाण सर्व मदनुग्रहार्पितम् ॥ १८ ॥ इत्थं वृषाङ्को दमनाय दत्त्वा वरं ततोऽस्मिन् विदघे विधानम् । स्वच्छन्दतन्त्रे तदपि प्रसिद्धं ततस्तु शैवैरपरैश्च दृष्टम् ॥ १९ ॥ अत्र सोमशम्भुः । - २२० “स्वच्छन्दभैरवे तन्त्रे यद्यपीत्थमुदाहृतम् । तथापीह समासत्वात् सिद्धान्तेऽप्युपदिश्यते || " [क्रियापादः इति । तद्यथा अष्टम्यां वा चतुर्दश्यां मधुमाधवमासयोः । शम्भोर्दामनकं पूर्वपक्षयोर्मुक्तिमुक्तिदम् ॥ २० ॥ तत्पूर्वमेव सप्ताहात् पञ्चाहाद् वाङ्कुरार्पणम् । कुर्याच्चोदितसम्भारान् मण्डपादींश्च सम्भृतान् ॥ २१ ॥ सप्तम्यां वा त्रयोदश्यां कृतनित्यार्चनाविधिः । भूषयेद् यागगेहं तं वितानस्रक्फलादिभिः || २१ ॥ ततो दमनकाराममशोकतरुमण्डितम् । गत्वाशोकतरोर्मूलं रमणीयमलङ्कृतम् ॥ २३ ॥ तदभावेऽर्च नागारे कृतकारामकेऽपि वा । कुर्याद् वासन्तिकीं पूजां मन्त्रैरेभिरनुक्रमात् ॥ २४ ॥ नैर्ऋत्यां गणपतिमैशान्यां गुरुं चावाह्याभ्यर्च्य तदनु अशोकाय नमस्तुभ्यं कामस्त्रीशोकनाशन! | शोकार्ति हर मे नित्यमानन्दं जनयस्व मे ॥ २५ ॥ इत्यनेनाशोकतरुं गन्धादिभिः दीपान्तं संपूज्य --- त्रुट्यादियुगपर्यन्तः कालरूपोऽव्ययो विभुः । कलते चैव योऽनादिस्तस्मै कालात्मने नमः ॥ २६ ॥ १. ' पर्व प', २. 'नन्दभा', ३. 'र्यु' क. पाठः,