सामग्री पर जाएँ

पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३१६ • ईशानशिवगुरुदेवपद्धतौ मूलं शिवान्तमुच्चार्य देयं गङ्गावतारकम् । मुक्तिकामस्य चैवं स्याद् विपरीतं हि मुक्तये ॥ १०७ ॥ आत्मविद्याशिवैस्तत्त्वैः पवित्राण्यधिरोपयेत् । अथारात्रिकमुत्तार्य देवं विज्ञापयेत् सुधीः ॥ १०८ ।। त्वं गतिः सर्वभूतानां संस्थितस्त्वं चराचरे । अन्तश्चारण सर्वेषां द्रष्टा त्वं परमेश्वर ! ॥ १०९ ।। कर्मणा मनसा वाचा त्वत्तो नान्या गतिर्मम | मन्त्रहीनं क्रियाहीनं द्रव्यहीनं च यत् कृतम् ॥ ११० ॥ जपहोमार्चनाहीनं कृतं नित्यं मया तव । स्तुतिभक्तिविहीनं च तत् पूरय महेश्वर ! ॥ १११ ॥ सुपूतस्त्वं सुरेशान ! पवित्रं पापनाशनम् । त्वया पवित्रितं सर्व जगत् स्थावरजङ्गमम् ॥ ११९. ॥ खण्डितं यन्मया देव ! व्रतं वैकल्ययोगतः । एकीभवतु तत् सर्वं त्वदाज्ञासूत्रयोजितम् || ११३ ॥ [क्रियापादः इत्यस्यान्ते सर्वतत्त्वात्मने सर्वकर्मसाक्षिणे सर्वपरिपूरणाय सर्वफलप्रदाय सर्व- ज्ञाय शिवाय नम इति विज्ञाप्य सजलेन पुष्पाञ्जलिना पवित्रपूजामात्मानं च शिवपादाम्बुजयोः समर्प्य दण्डवत् प्रणमेत् । चतुरस्त्रीनथो मासान् द्वौ मासं पक्षमेव वा । सप्ताहं पञ्चरात्रं वा द्विरात्रं वैकरात्रकम् ॥ ११४ ॥ व्रतं सङ्कल्प्य देवाग्रे करोम्यतावदित्यपि । तथेत्युक्तः शिवेनापि निर्गत्य तदनुज्ञया ॥ ११५ ॥ लोकपालास्त्रनन्द्यादिद्वाः स्थानिष्ठा पवित्रकैः । अग्नौ च विद्यापीठे च पवित्राण्यघिरोपयेत् || ११६ ॥ ततो व्याहृतिभिच्याग्निं सोमाग्निषोमयोरपि । हुत्वा स्विष्टकृते चैव बलिं प्राग्वद् विनिक्षिपेत् ॥ ११७॥