पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२१४ ईशानशिवगुरुदेवपद्धतौ अन्यत्रापि श्राद्धप्रकरणे. “उपवासो यदा नित्यः श्राद्धं नैमित्तिकं भवेत् । उपवास तदा कुर्यादाघ्राय पितृसेवितम् ॥” [क्रियापादः इति । अथाचम्य दर्भशय्यायां प्राचीनमस्तको बुभुक्षुः मुमुक्षुर्भस्मशय्यायामु- पावशेत् । अत्र सोमशम्भुः . "आचान्तो मन्त्रसन्नद्धः कृतसङ्गीतजागरः । आसीतानुस्मरनीशं बुभुक्षुर्दर्भ संस्तरे ॥ अनेनैव प्रकारेण मुमुक्षुरपि संविशेत् । केवलं भस्मशय्यायां सोपवासः समाहितः ॥ " इति । कृतसङ्गीतजागर इत्युक्तत्वात् स्वापो न कर्तव्यः । मोहशूरोत्तरे च "क्रियासमर्पणं कृत्वा शिवाग्रे क्षपयेन्निशाम् । जपध्यानरतो भूत्वा स्तुतिगीतपरोऽथवा ॥" इति । एतस्माद् दर्भविष्टरस्थेन देवाग्रे सोपवासेन जागरिणा भवितव्यम् ।

अथ सूर्योदयात् पूर्वं स्नातः सन्ध्यां समाप्य च ।
सामान्यार्घ्येण सम्पूज्य गन्धसूत्राण्यनुक्रमात् ॥ ९१ ॥

अविसर्जित एवेशे ऐशान्यां मण्डले न्यसेत् । देवं विसृज्य सापेक्षं निर्माल्यमपनीय च ॥ ९७ ॥ समाचम्य यथापूर्वं कृत्वात्मादिविशोधनम् ।

इष्ट्वा सूर्यं ततो द्वारलोकेशास्त्रार्चनादनु ॥ ९८ ॥

पञ्चगव्यादिभिर्देवं यजेन्नित्यविधानतः ।

कुम्भालमण्डलेशामीनिष्ट्वा पूर्णा बलिं तथा ॥ ९९ ॥
कृत्वा नित्यं समाप्यैवं नैमित्तिकमुपक्रमेत् ।