पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२१२ ईशान शिवगुरुदेवपद्धती रेचान्तमूलमन्त्रेण तारं सर्वात्मनेन्तकम् । उत्तारात्रिकं पश्चादाचान्तः सकलीतनुः ॥ ८७ ॥ त्रिसूया वेष्टयेत् सर्व प्रासादं मण्डपं तथा । पूजोपकरणत्रातं सर्वं तारेण वेष्टयेत् ॥ ८८ ॥ नन्द्यादिद्वारपालेभ्यो वास्तुपब्रह्मणोरपि । लोकेशेभ्यस्तदस्त्रेभ्यो दत्त्वा गन्धपवित्रकम् ।। ८९ ॥ [क्रियापादः तदनु कुण्डसमीपात् पवित्राणि पात्रस्थान्यादाय शिवकुम्भा संस्था- य रक्षार्थी कुम्भस्थाय शिवायानेन समर्पयेत् । ओं भगवन् ! संस्कृतान्यत्र पवित्राणि यथाविधि ।

समर्पयामि तानीह तुभ्यं रक्षस्व शङ्कर । ॥ ९० ॥

इति समर्पयेत् । तदनु तस्माद् गन्धपवित्राणि गृहीत्वा शिवकुम्भास्त्रवर्धनीगणपतिगु- रुपङ्क्तिषु तत्तन्मन्त्रैः सर्वतत्त्वात्मने नमोन्तैरारोप्य पृथगारात्रिकमुत्तार्य कृतमण्डलके देवाभिमुखः स्वयमुपविश्य स्वात्मन्यनेन पवित्रमारोपयेत् । सांवत्सरस्य यागस्य परिपूर्तिकरे व्रते । पवित्रके पवित्रात्मा पवित्रं धारयाम्यहम् ॥ ९१ ॥ इत्युक्त्वा तारमूलशिवाय नमोन्तमात्मन्यारोप्याचम्य देवाभिमुख उपविश्य तदर्थं निर्मितं गन्धपवित्रकं गन्धपङ्कानुरञ्जितं सुधूपितं सदूर्वाक्षतमञ्जलिनादाय मन्त्रसंहितयामृतीकृत्यानेनाभिमन्यारोपयेत् । ओं समस्तविधिच्छिद्रपूरणेशमघं प्रति । प्रभोद्यामन्त्रयामि त्वां (त्वम) दिच्छावाप्तिकारक! ॥ ९२ ॥

तत्सिद्धिमनुजानीहि यजतश्चिदचित्पते! |

सर्वथा सर्वदा शंम्भो! नमस्तेऽस्तु प्रसीद मे ॥ ९३ ॥ इति रेचकेणामृतीकृत्य तारमूलं च शिवाय नमोन्तमुच्चार्य भगवते गन्धपवि- त्रमारोपयेत् । अनन्तरमारात्रिकमुत्तार्यानेन प्रार्थयेत् ।