पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पवित्रारोपणाधिकारः ] उत्तरार्धे एकविंशः पटलः । मृदम्भोभिर्बहिः स्थाली संमृज्यास्त्रेण रक्षया । त्रिपुण्ड्राङ्कां विधायैनामगृतीकृत्य मुद्रया ॥ ७६ ॥

कुण्डस्य पश्चिमे किञ्चिन्मण्डले पूर्ववन्न्यसेत् ।
हृदाभ्यर्च्य घृतं हुत्वा शिवास्तु सकृत् सकृत् ॥ ७७ ॥
संपातयेच्चरौ तस्मिन् भूकेनाटोचरं शतम् ।

हुत्वा सम्पात्य तं पश्चाय विभाग विभजेवरुम् ॥ ७८ ॥

शिवाग्न्योर्मधुसर्पिभ्यामात्मा धृतेन तु ।

आयोज्य शिवभागं तु संपूज्य विन्यसेत् ॥ ७९ ॥ २११ तदनु देवसमीपं गत्वाष्टषिकां दत्त्वा दन्तकाष्ठताम्बूले प्राच्यां पु- रुषेण भस्माक्षमालादण्ड कौपीनभिक्षापात्राणि दक्षिणेऽपरेण मृत्कुशाम्बु होमद्र- व्याणि पश्चिमे सद्येन धात्रीफलरोचनाकुङ्कुशलाक तकज्जलम्बुवा मेन पचगव्यपादुकाछत्र योगपट्टासवान्यैस्यानशनेन विन्यस्यावयेत् । एतेषां यदसम्पन्नं मनसा तत् कल्पयेत् ।

देवांशं तु चरुं शशिवर्मरक्षितम् ॥ ८० ॥
हृदाभ्यचर्यामृतीत्य व्यतिं निवेदयेत् ।

ततः पवित्राण्यादाय पावके ॥ ८१ ॥ कृष्णाजिनदुकूलादिच्यते विन्यसेदूहृदा । प्रोक्ष्यास्त्रात् संहितामन्त्रैरालभ्याभ्यर्च्य संस्मरेत् ॥ ८२ ॥ संवत्सरात्मकं शम्भुं सर्वकृत्यैकसाक्षिणम् । गोप्तारमव्ययं विश्वभोगमोक्षफलप्रदम् ॥ ८३ ॥ कृताकृतसमुत्सृष्टकृष्टकर्माभिपूरकम् । विभावयेत् पवित्रेषु ततः प्रकृतिसंख्यया ॥ ८४ ॥

हुत्वाग्नौ तत्र मूलेन तेषु संपातयेद् घृतम् ।
संपातशोधितान्येवमिष्ट्वा संहिता ततः ॥ ८५ ॥
प्राक् पूजिताय सूर्याय दद्याद् गन्धपवित्रकम् ।

सुधूपितं सपुष्पं तन्मूलकुम्भामृतीकृतम् ॥ ८६ ॥ १. 'क' क. पाठः.