पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१० तद् यथा १. - इंशानशिवगुरुदेवपद्धतौ कुण्डात् पश्चिमतश्चुल्लिं दक्षिणे वोपलिप्य तु । अस्त्रेणोल्लिख्य चावोक्ष्य कवचेनावकुण्ठयेत् ।। ६४ ।। [क्रियापाद: मार्जयित्वोपलिप्याथ चुलिं शक्ति विभावयेत् । धर्माधर्मभुजामेवं कल्पिताशेषविग्रहम् || ६५ || अभ्यर्च्य गन्धधूपायैस्ततोऽग्निं पूर्वमुद्धृतम् । संस्कृतं पञ्चसंस्कारैस्तस्यां चुल्ल्यां नियोजयेत् ॥ ६६ ॥ शिवमग्निं च तां शक्तिमुभावभ्यर्चयेत् पुनः । औदुम्बरीं मृन्मयी वा चरुस्थालीं तु निर्मणाम् ॥ ६७॥ धौतामस्त्रेण कवचेनावकुण्ठ्य निरीक्षिताम् । सम्प्रोक्ष्याभ्युक्ष्य सन्ताङ्य गन्धेनालिप्य धूपयेत् ॥ ६८ ॥ कुशदाम्ना तु तत्कण्ठे वर्मणावेष्टय मण्डले । प्रोक्षितेऽस्त्रेण कवचेनावृतेऽस्त्राभिमन्त्रिते ॥ ६९ ॥ स्थापयेत् तामधोवक्रां षडुत्थे दर्भविष्टरे । तस्यां साङ्गं शिवं चेष्ट्वा प्रोत्तानामाज्यरूषिताम् ॥ ७० ॥ सद्योदुग्धेन गव्येन शुद्धक्षीरेण पूरयेत् । स्थालीमारोप्य तच्चुल्ल्यां धवलाञ्शालितण्डुलान् ॥ ७१ ॥ पञ्चप्रसरमात्रांस्तु धौतान् क्षीरे विनिक्षिपेत् । आग्नेय्यामुपविश्याथ चालनोद्घाटनं क्रमात् ॥ ७२ ॥ दर्व्यास्त्रेण सकृत् कुर्याद्धस्वप्रासादमुच्चरन् । तं चरुं श्रपयित्वाथ मन्त्रसंहितया चरौ ॥ ७३ ॥ सुसंस्विन्नो भवेत्युक्त्वा घृतेनैवाभिघारयेत् । तप्ताभिघारं कृत्वैवं मण्डले दर्भविष्टरे ॥ ७४ ॥ अवतार्य द्वितीये तं चरुं संहितया पुनः । शीतो भवेति आज्येन कृत्वा शीताभिधारणम् ॥ ७५ ॥ 'णालेिख्य' क. पाठः.