पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पवित्रारोपणाधिकारः ] उत्तरार्धे एकविंश: पटलः । २०१ अथ वेदिकायामुदङ्मुख उपविश्य कृतात्मशुद्धिः सकलीकृत्य विशे- षार्थ्यमभ्यर्च्य स्वशिरश्च पूजोपकरणान्यर्ध्यजलैरस्त्रेण सम्प्रोक्ष्य वर्मणावकुण्ठ्य द्रव्याश्रयमन्त्रशुद्धं प्राग्वद् विधाय विधृतभस्मत्रिपुण्ड्चन्दनतिलकसितकुसुमः सोत्तरीयो गृहीतज्ञानखङ्गः सुप्रतिष्ठादिपञ्चकोष्ठेषु दीक्षोक्तमार्गेण विहितपञ्चगव्यो निरीक्षणप्रोक्षणताडनाभ्युक्षणखननावकिरणपूरणसमीकरण सेचननि- कुट्टनसंमार्जनोपलेपन वज्रीकरणानि हृदयास्त्रवर्ममूलैः क्रमेण विधाय पञ्च- गव्येन सम्प्रोक्ष्यैवं मण्डपं संस्कृत्य दीक्षोक्तमार्गेण विकिरणक्षेपपूर्वं कुम्भवर्धन्यौ चलाचलासनस्थावभिपूज्य तदनु मण्डपान्तर्यथादिशं कृतमण्डलधा- न्योपरि त्रिसूत्रवेष्टितचतादिपल्लव फलविधानगन्धाक्षतपुष्पकूर्चायेषु सलिलपूर्ण- कुम्भेषु लोकपालानावाश्चाभ्यर्च्य तदस्त्राणि च तेषां शिवाज्ञाः श्रावयेत् ।

भो भो ! त्वया स्वस्यां दिशि विघ्नप्रशान्तये ।
स्थातव्यं सावधानेन ह्यायागान्तं शिवाज्ञया ॥ ६० ॥
इति संश्राव्य लोकेशान् परिभ्रम्यास्त्रकुम्भकौ ।
अस्त्रदुर्गमनुस्मृत्य स्थिरासनगतौ यजेत् ॥ ११ ॥
संस्मृत्य च तयोर्योगं मुद्रया प्रागुपात्तया ।
कुम्भेशे ज्ञानखड्गं तं समर्प्य प्रार्थयेच्छिवम् ॥ ६२ ॥

ओम् आयागान्तं त्वया शम्भो ! स्थातव्यं शिवया सह । ससुतेन गणैः सार्धं योगाध्यक्षेण शङ्कर ! || ६३ ॥ इति विज्ञाप्य निवेद्यान्तमभ्यर्च्य संनिरोध्य यथास्थानमुपवेश्य लिङ्गशुद्धि- प्रभृत्यावाहनादिभिश्च पञ्चगव्यपञ्चामृतगन्धजलाभिषेकैरुपचारपट लोक्तमा- र्गेण संस्नाप्य वसनभूषणगन्धादिभिश्च लिङ्गस्थं शिवं निवेद्यान्तमभ्ययथ मध्ये वैशान्यामुत्तरे वा भद्रकलिङ्गोद्भवाद्यन्यतमे मण्डले च शिवमासनावाह- नादिभिः स्नपनवर्जं निवेद्यान्तमभिपूज्याग्नि कार्यपटलोक्तंमार्गेण प्राच्यां कुण्डे- ऽग्निमाधाय शिवमावाह्याभ्यर्च्य यथावत् सन्तर्प्य मण्डलस्थशिवशिखानिर्गत- ज्योतिषा वह्निस्थशिवनासाग्निनिर्गतज्योतिः स्वनाडीमार्गेणाविच्छिन्नं विद्युल्ल- तासंस्थानं सञ्चिन्त्य सन्धायाग्ने हृदये शिवमभिपूज्याथ च श्रपयेत् । 'र्गे कूर्चाढ्येषु' ख. पाठ।. cc