पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पवित्रारोपणाधिकारः] उत्तरार्धे एकविंशः पटलः । द्वादशाङ्गुलान्यष्टाङ्गुलानि चतुरङ्गुलानी' ति भोजराजः । शिरः पवित्रत्रितयमुत्तमादित्रयं भवेत् । एकस्मिन्नव लिङ्गे तत् प्रयोज्यं मकुटाकृति ॥ ४६ ॥ गङ्गावतारकं तत्र कुर्यात् तत्त्वाङ्गुलैः समम् । अत्र पवित्रग्रन्थिपरिमाणे सोमशम्भु: -- इति । "ग्रन्थयो दश कर्तव्या अथवा तत्त्वसंख्यया । अन्तरं वा यथाशोभमेकद्विचतुरङ्गुलम् | अधिका वा यथाकामं कर्तव्या अन्थयः समाः ॥” दशग्रन्थीनां नामधेयानि चाह

"प्रकृतिः पौरुषी वीरा चतुर्थी त्वपराजिता । पञ्चमी तु जया षष्ठी अजिता सप्तमी क्रिया ॥ शिवा मनोन्मनी चैव दशमी सर्वतोमुखा ।" इति गङ्गावतारकस्यापि ग्रन्थयो द्वादशाथवा ॥ ४७ ॥ तत्तन्तुसंख्यया वा स्युर्यथाशोभं च तद् भवेत् । कुर्याद व्यक्तलिङ्गानां पवित्राणां चतुष्टयम् ॥ १८ ॥ तथैव मुखलिङ्गानां व्यक्तेष्वेकैकमेव वा । स्वमूर्तौ च गणाधीशे गुरुपङ्कौ च पुस्तके ॥ ४९ ॥ शिवकुम्भेऽस्त्रवर्धन्यां दिक्पालास्त्रवृषेष्वपि । द्वारेशानां तथैकैकं पवित्रं परिकल्पयेत् ॥ ५० ॥ कण्ठादानाभिलम्बीनि तानि व्यक्तेषु कल्पयेत् । गौर्याश्चैव महालक्ष्म्या दुर्गायाश्चाष्टमातृषु ॥ ११ ॥ सरस्वत्याः पवित्राणि श्रीणि त्रीणि प्रकल्पयेत् । गङ्गावतारहीना नीति यावत् । विष्णुभास्करवह्नीनां चण्डेशस्कन्दवेघसाम् || ५२ ॥ 'त' क. पाउ● HEÇ PUDISTUSLAN ŞARKƏNMEROYA २०७