पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तदनु ईशान शिवगुरुदेवपद्धतौ तुट्यादिरब्दपर्यन्तः त: कालात्मा विश्वगो विभुः । अनाद्यन्तश्च यो नित्यस्तस्मै कालात्मने नमः ॥ ३३ ॥ इति सूत्रे यजेद् देवं कालतत्त्वात्मकं शिवम् | सान्निध्यं तस्य संस्मृत्य यावदारोप्यते शिवे ॥ ३४ ॥ शिवहस्तं विधायाग्रे परमीकरणान्वितम् । कुर्यात् पवित्रनिर्माणं वामदेवं स्मरन् जपन् ॥ ३५ ॥ तत्र गन्धपवित्रं स्यादेकग्रन्थ्यल्पतन्तुकम् । कनिष्ठसंख्यमित्येके त्रिसूत्रेण विनिर्मितम् ॥ २१ ॥ [क्रियापादः हस्तादिनवहस्तान्तलिङ्गानां स्यात् पवित्रकम् । अष्टाविंशतिमारभ्य यावदष्टोत्तरं शतम् || ३७ ॥ दशवृद्धिकमात् कुर्यात् पवित्रं नवतन्तुभिः | अयं हि पाक्षिकः कल्पो मुख्यपक्षोऽभिधीयते ॥ ३८ ॥ सर्वेषां स्थिरलिङ्गानामव्यक्तानां विशेषतः । चलानां च यथा सूत्रैरष्टोत्तरशतैः स्मृतः ॥ ३९ ॥ अथैकाशीतिसंख्यैर्वा पञ्चाशद्भिस्ततः परम् । षट्त्रिंशत्संख्यसूत्रैर्वा श्रेष्ठमध्याधमो विधिः ॥ ४० ॥ प्रोक्तः कनिष्ठलिङ्गेषु कनिष्ठार्चनशक्तिषु । तस्माच्छक्त्यनुसारेण विदधीत पवित्रकम् ॥ ११ ॥ स्थिराणामिह लिङ्गानां लिङ्गमस्तकमानतः । शिरः पचित्रत्रितयं कुर्यात् तत्त्वत्रयात्मकम् ॥ ४२ ॥ चतुर्थं सार्वतत्त्वं तु कुर्याद् गमावतारकम् । निश्शेषपिण्डिकास्पर्शालम्बितं लिङ्गमस्तकात् ॥ १३ ॥ कथ्यते चललिङ्गानां स्थण्डिलानां पवित्रके । उत्तमाद्यर्चनाभेदादू विस्तारो हि यथा भवेत् ॥ १४ ॥ द्वादशाष्टचतुःसंख्यैरङ्गुलैर्विस्तृतानि तु । श्रेष्ठमध्याधमानि स्युः पवित्राणि यथाक्रमम् ॥ ४५ ॥