________________
१४ तद्यथा ईशानशिवगुरुदेवद्धतौ शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः । तन्मात्राण्येव विषया भूतादेरभवन् क्रमात् ॥ १०४ ॥ तन्मात्रेभ्यस्तु जातानि खानिलाग्न्यब्धराः क्रमात् । गुणोत्तराणि तान्याहुः पञ्च भूतानि सूरयः ॥ १०५ ॥ श्रोत्रादिपञ्चेन्द्रियाणि शब्दादीनामनुक्रमात् । आधारत्वेन तन्मात्र व्यञ्जकानि भवन्ति हि ॥ १०६ ॥ उक्तिर्गतिरुपादानं सर्गश्वानन्द एव च । कर्मेन्द्रियाणां कर्माणि नियतानि पृथक् पृथक् ॥ १०७ ॥ परस्परानुप्रविष्टैर्महाभूतैश्चतुर्विधैः । व्याकाशैर्जगत् कार्यं दृश्यं निष्पाद्यतेऽखिलम् ॥ १०८ ॥ अत्र सांख्यादयो ब्रूयुः पञ्चविंशतिसङ्ख्यया । तत्त्वानि वा चतुर्विंशन्नास्ति तत्त्वमतः परम् ॥ १०९ ॥ एतावता जगत्सिद्धेः कस्मात् तत्त्वान्तराश्रयः । इत्यादिकः प्रलापोऽयं तेषामर्थं न साधयेत् ॥ ११० ॥ कथमित्यत्र तद् ब्रूमस्तत्त्वैरन्यैः प्रयोजनम् । “न भूतेन्द्रियतन्मात्रैर्नैवान्तःकरणैः पुमान् । रज्यते विषयार्थेषु रागतत्त्वं हि रञ्जकम् ॥” रागकामावित्यनर्थान्तरम् । "रागाद्धि कामयत्यर्था (१) प्रवृत्तिः कामतो भवेत् । तस्माद् रागाह्वयं तत्त्वमस्तीत्येवावगम्यताम् ॥ तद्वद् रागादि भूम्यन्ततत्त्वानां विषयादिषु । परोपलम्भशक्तेर्यन्नाभिव्यञ्जकता भवेत् (?) ॥ • परोपलम्भशक्तेर्यद् व्यञ्जकं तत् प्रचक्षते । विद्यातत्त्वं हि रूपादिबोधे नेत्रादिकं यथा ॥" इति तत्त्वसिद्धौ । तस्माद् विद्याह्वयं तत्त्वमस्तीत्येवावधार्यताम् ॥ १११ ॥