पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

reefore] तथाहि इति । - उत्तरार्धे प्रथमः पटलः । तत्वैरोभिर्निबद्धोऽसावणुभोक्तृत्वमागतः । तत्त्वं पुरुषसंज्ञं स्यात् कर्तृशक्तयुपबृंहितम् ॥ ९४ ॥ "तत्त्वैरेभिः कलितो भोक्तृत्वदशां यदा पशुनीतः । पुरुषाख्यतां तदायं लभते तत्त्वेषु गणनां च || " पुरुषादस्य भोगार्थ तत्त्वं प्रकृतिसंज्ञितम् । जातं त्रिगुणसाम्येन तदेवाव्यक्तमिष्यते ॥ ९५ ॥ बुद्धयादितत्त्वविकृतेः प्रकृतित्वात् तथा स्मृतम् । गुणसाम्यात् तदव्यक्तगुणमव्यक्तसंज्ञितम् ॥ ९६ ॥ बोद्धव्यलक्षणा से प्रकृतिः शक्तिबृंहिता | बुद्धितत्त्वं भवेद् तं सात्त्विकं गुणमाश्रिता ॥ ९७ ॥ . सैव बुद्धिर्महान् नाम तत्त्वं सांख्यैर्निगद्यते । अव्यक्तमेव तु व्यक्तसत्त्वराजसतामसैः ॥ ९८ ॥ स्यादहङ्कारतत्त्वं तन्मोहाहम्मानलक्षणम् । सोऽहङ्कारस्त्रिभेदः स्यात् पृथक् सत्त्वादिभेदवान् ॥ ९९ ॥ सात्त्विकस्तैजसो नाम वैकारी राजसः स्मृतः । भूतादिस्तामसस्तेऽपि पृथक् तत्त्वान्यवासृजन् ॥ १०० ॥ “तैजसतस्तत्र मनो वैकारिकतो भवन्ति चाक्षाणि । भूतादेस्तन्मात्राण्येषां सर्गेऽयमेतस्मात् ॥” इति तत्वप्रकाशे । इच्छारूपं मनस्तत्त्वं ससङ्कल्पविकल्पकम् । तैजसादेव सञ्जातं जडं तच्च निरन्वयम् ॥ १०१ ॥ वैकारिकात् तु जातानि श्रोत्रं त्वक्चक्षुषी तथा । जिह्वा घ्राणं च पञ्चैव तानि बुद्धीन्द्रियाणि हि ॥ १०२ ॥ तथा वाक् पादपाणी व पायूपस्थेन्द्रिये अपि । वैकारिकाख्यावेव स्युः पञ्च कर्मेन्द्रियाण्यपि ॥ १०३ ॥ १३