पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१३ ईशानशिव गुरुदेवपद्धती [क्रियापादः तत्र मायातत्त्वमिन्द्रजालबीजम् । तदभिज्ञो भगवान् मायाकन्दली - कन्दः शिवो मलविदारणेन स्वयमभिव्यनक्ति । सा हि स्वयं ।न सती । यदि सती भवेद् मायैव न स्यादिति षट्त्रिंशत्तत्त्वसिद्धौ । तथाहि-


" मायाविना न मायास्ति विना मायी शरीरवान् । दृष्टोऽस्मिन्निन्द्रजालादौ यथा लोके प्रयोजकम् ॥ ८५ ॥ तथा कलादितत्त्वानां मायोपादानमिष्यते । अचेतनं चेतनवत् प्रतिभाति विचित्रकम् || ८६ || असत् स्वतः सदाभासमिन्द्रजालं यथा तथा । तां मायां शक्तिभिः स्वाभिर्विक्षोभ्य परमेश्वरः ॥ ८७ ॥ स्वकर्मानुगुणं सृष्टिं करोति करुणानिधिः । तस्यां कालकलादीनि पञ्च तत्त्वान्यनुक्रमात् ॥ ८८ ॥ प्रभवन्त्यविशुद्धानि यथा तत्त्वप्रकाशके । पुंसोज्ञकर्तृकाश्च मायावस्तत्त्वपञ्चकं भवति । कालो नियतिश्च कला ह्यशुद्धविद्या च रागश्च ॥" इति तत्र कालाह्वयं तत्त्वं त्रिविधं भूतपूर्वकम् ॥ ८९ ॥ वर्तमानं भविष्यच्च जाग्रत् कलयति स्फुटम् । तथा नियतितत्त्वं च जातं नियमनात्मकम् ॥ ९० ॥ जातं तथा कलात्तत्त्वमणूनां मलमेकतः । 'कलयित्वा व्यञ्जयति कर्तृशक्तिं यतः कला ॥ ९१ ॥ "मलं नृणामेकतस्तु कलयित्वा व्यञ्जयति कर्तृशक्तिमि" ति तत्त्वप्रकाशे। कोहलितसामर्थ्य कर्तृशक्तेः प्रवर्तिका । अशुद्धविद्यासा पुंसां विषयाणां प्रदर्शिनी ॥ ९९ ॥ “पुंसो विषयप्रदर्शनार्थमथो विद्यातस्त्वं सूते प्रकाशकमि " ति तत्त्व- प्रकाशे। विद्यातो रागतत्त्वाख्यं जातमर्थेषु पूरुषः । प्रवर्तमत्यभिष्यन्नाद् विषयेष्वभिरञ्जकम् ।। ९१ ॥