पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्वमातृकाधिकारः ] उत्तरोर्ध प्रथमः पटलः । ज्ञानशक्तिर्यदा स्वल्पा क्रियाशक्तिस्तथाधिका । तत्रेश्वराख्यं तत्त्वं स्यात् सर्वकर्तृत्ववैभवम् ॥ ७८ ॥ निमित्तकारणं सृष्टेरीश्वराख्यं क्रियाधिकम् । यथा घटघटादीनां कुलालः संप्रवर्तकः ॥ ७९ ॥ क्रियाशक्तिर्यदा स्वल्पा ज्ञानशक्तिस्तथाधिका । शुद्धविद्यारूयतत्त्वं तज्ज्ञानरूपप्रकाशकम् ॥ ८० ॥ यथा तत्त्वप्रकाशे - इति । - “न्यग्भवति कर्तृशक्तिर्ज्ञानाख्योद्रेकमश्नुते यत्र । तत्तत्त्वं विद्याख्यं प्रकाशकं ज्ञानरूपत्वात् ॥” 1 बिन्दुनादौ यदा नौ सदाशिव समाश्रयौ तत्र विद्येश्वरा जाताः श्रीकण्ठानन्तपूर्वकाः ॥ ८१ ॥ यत्र विद्याह्वयं तत्त्वं बिन्दुनादशिवाश्रयम् । तत्र विद्याश्च मन्त्राश्च स्फुरन्त्यब्धौ तरङ्गवत् ॥ ८२ ॥ यत्र तत्त्वप्रकाशे. "आद्याननुगृह्य शिवो विद्येशत्वे नियोजयत्यष्टौ 1 मन्त्रांश्च करोत्यपरांस्ते चोक्ताः कोटयः सप्त || " इति । रत्नत्रयेऽपि - इति । " तत्र विद्याभुजः पूर्वे मन्त्रा विद्याश्च नामतः । विद्येश्वरनियोज्यास्ते संख्याताः सप्तकोटयः || ” इति इत्थं शिवादिविद्यान्तं शुद्धतत्त्वानि पञ्च हि । येषां व्यतिकरा विद्येश्वरविद्यादिसम्भवः || ८३ ॥ विद्याविद्येशमन्त्राणां सामर्थ्यादीश्वरेच्छया । अशुद्धतत्त्वं मायाख्यमिन्द्रजालवदुद्वभौ ॥ ८४ ॥