पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

प्रायश्विताधिकारः ] उत्तरार्धे विंशः पटलः । २०१ अत्र स्वयमुच्छिष्टस्य समानजातीयोच्छिष्टस्पर्शे स्नात्वा स्वजातीश्वर- शतजपाच्छुद्धिर्भवेत् । अदीक्षितोच्छिष्टस्पर्शे द्विशतं जपेत् । स्वस्मादनन्तर- वर्णोच्छिष्टस्पर्शे त्वेकाहमुपोष्य स्वजातश्विरं स्पृष्टवर्णेश्वरं चाप्येकीकृत्य शतं जपेत् । तत्रैकान्तरवर्णोच्छिष्टस्पर्शे त्वेकाहमुपोप्य स्वजातीश्वरं स्पृष्टवर्णेश्वरं चाप्येकीकृत्य शतं जपेत् । तत्रैकान्तरवर्णोच्छिष्टस्पर्शे द्विरात्रं धन्तरे त्रिरात्र- मुपोष्य प्राग्वज्जपेत् । एतेषामदीक्षितानां स्पर्शे द्विगुणम् । तद्वत् स्वोत्तरवर्णो- च्छिष्टस्पर्शेऽपि पादहीनमर्धे च जपोपवासौ विधेयौ । उच्छिष्टः स्वयमुच्छि-ष्टिमन्त्यजं स्पृशेद् यदि त्रिरात्रोपोषितः स्नातः स्वजातीश्वरायुतं जपेत् । एकोच्छिष्टे तदर्धं स्यादनुलोमे तदर्धकम् । अन्त्यजाः प्रतिलोमाः स्युः कर्माररजकादयः || ३४ ॥ चण्डालोच्छिष्टसंस्पर्शे तीर्थे कृच्छ्रं समाप्य तु । अघोरस्यायुतजपाच्छक्त्या दत्त्वा च शुध्यति ॥ ३५ ॥ अत्र स्वयमनुच्छिष्टः प्रोक्तानामुच्छिष्टानां स्पर्शे यथोक्तात् पादं चरेत् । स्वयमुच्छिष्टस्त्वेषामनुच्छिष्टानां स्पर्शे अर्धे प्रायश्चित्तं चरेत् । यद्वा अन्ये- षामुच्छिष्टं भुक्त्वा पञ्चब्रह्ममण्डले ब्रह्माण्याभेपू ( ज्य) जात्युद्धारेण दीक्षयेत् । तच्च मण्डलं चतुर्हस्तं चतुर्द्वारं विधेयम् । तस्मिन् यथादिशं पुरुषादीन् सं- स्थाप्य मध्ये स्वजातीश्वरमीशानं तत्स्थाने यथावदभिपूज्य स्वजातीश्वरम- न्त्रेण फडन्तेन संशोध्य जातिमुद्धृत्य स्वाहान्तेन तेनैव मण्डलस्थस्वजातीशे प्रक्षिप्योद्धृत्य संशोध्यात्मनि तथैव संयोजयेत् । एवं जातिमुद्धृत्य सामय्या दीक्षया गुरुणा दीक्षयेत् । असन्निहितगुरुः स्वयमेवात्मानं दीक्षयेत् । एवं दीक्षयितुमसामर्थ्ये षडहान्युपोष्य वन्याशनः स्वजातीश्वरलक्षं जपेत् । अत्र स- जातीयस्योच्छिष्टं मुक्त्वैकाहमुपोष्य शतं जपेत् । अनन्तरस्य द्वयहमुपोष्य सहस्रं जपेत् । एकान्तरस्य त्र्यहं द्विसाहस्रं च । द्व्यन्तरस्य द्विमुर्ण मयुतं जपः । ब्राह्मणः शूद्रेोच्छिष्टं भुक्त्वा पञ्चरात्रमुपोष्य जात्युद्धारदीक्षितो लक्षं जपि - त्वा कृच्छ्रेण शुध्यति । अनुलोमानामप्येवमूह्यं प्रायश्चित्तम् । अन्त्यजोच्छिष्ट- भोजने प्रायश्चित्ताभावात् पतत्येव । तस्माद् यत्नेन तत् परिहरेत् । एवं पर लिङ्गयन्नभोजने तज्जातीश्वरस्यायुतं जपेत् । ते चार्हतशाक्य पाशुपतकांपा- लिकाः । एतेषां सद्योजातादयः पतयः । तत्र च कापालिकान्नभोजने कृच्छ्र- चान्द्रायणे कृत्वा ईशानं लक्षं जपित्वा जातीश्वरमण्डलेऽन्यलिङ्गेश्वरमभिपूज्य