________________
प्रायश्चित्ताधिकारः ] उत्तरार्धे विंशः पटलः तत्र सोपवासः शुचिः पञ्चगव्यं प्राश्य जुहोति च । निर्माल्यसङ्करे जाते पञ्चब्रह्मशतं जपेत् ॥ १३ ॥ अकामाद् भक्षणे तस्य सार्धसाहस्रकं जपेत् ।
कामादनन्तयागेन दीक्षया च पदाध्वनः ॥ १४ ॥ शुध्येदतस्तु निर्माल्यं नाश्नीयान्न स्पृशेदपि ।
अनन्तयागो नाम अनन्तेशादिविद्येश्वरपरिवृतस्य शिवस्य पञ्चब्रह्म- मण्डलेऽस्मिन्नेव पटले वक्ष्यमाणो यागो निर्दिष्टः । निर्माल्यभेदाः कथ्यन्ते षड्विधास्तेऽपि तद् यथा ॥ १५ ॥ देवद्रव्यं च देवस्वं नैवेद्यं च निवेदितम् । चण्डद्रव्यं च निर्माल्यं तेषां लक्षणमुच्यते ॥ १६ ॥ वस्त्रभूषणगन्धाद्यं देवद्रव्यमिति स्मृतम् । देवस्वं देवसम्बन्धि ग्रामक्षेत्रादि गोधनम् ॥ १७ ॥
देवार्थं कल्पितान्नाद्यं नैवेद्यं नाम तत् पुनः । निवेदिताख्यमुत्सृष्टं चण्डद्रव्यं च तद्वतम् ॥ १८ ॥ गर्भागाराद् बहिः क्षिप्तं निर्माल्यं तन्न संस्पृशेत् ।
षड्विधं चापि निर्माल्यं नोपयुज्यात् कदाचन ॥ १९ ॥ अत्र भोजराजः - " षड्विधमपि निर्माल्यं न जिघ्रेन लङ्घयेत् नाद्यान्न विक्रीणीयात् क्रव्यादो भवति भुक्त्वा मातङ्गो लङ्घनेऽसिद्धिराघ्राणे वृकः स्पर्शने स्त्रीत्वमथ चण्डालो विक्रये शवरः" इति । शिवनिर्माल्यवत् सौरं चण्डे दत्तं ततोऽधिकम् । गुरुपुस्तक वह्नियक्षनाग योगीन्द्रगणमातृगौरीषु शिवनिर्माल्यवद् न भवति । अचरेष्वपि दशस्थानेषु गुरुव्याख्याकाले शिवकुम्भे देवप्रदक्षिणे वि- सर्जितेऽपि देवे लिङ्गस्था पूजा । चललिङ्गे अघटितलिङ्गे आस्थाप्यलिङ्गे चित्र- रत्नजे मजे अन्यस्मिन्नपि सद्यः प्रतिष्ठेति चतुर्थी कर्मावधि निर्माल्यं न भव- तीति भोजराजः । १. 'चाल' क. पाठः. २. वि' ख. पाठः: