पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

आचार्यककामस्यानुकल्पः] उत्तरार्धे एकोनविंशः पटलः । सहेमफलकूर्चोक्त फलपल्लवशोभितान् । सवस्त्रमालाभरणानासनादिक्रमेण तु ॥ ७८ ॥

परमीकरणान्तेष्वावाह्य तु कलाः क्रमात् ।
मूर्त्यङ्गान्यभिसम्पूज्य कुण्डे वह्निं च पूर्ववत् ॥ ७९ ॥
इष्ट्वा पञ्चाहुतीर्हुत्वा पृथ्व्यादीनां स्वनामभिः ।
कलानामङ्गमूर्तीनां तारहृन्मूलपूर्वकम् ॥ ८० ॥
समिदाज्यचरून् लाजतिलान् हुत्वा बलिं क्षिपेत् ।
शिवमग्निं च सन्धाय पूर्णां हुत्वा यथोदिताम् ॥ ८१ ॥
अनुज्ञाप्य शिवं पश्चान्मण्डलाद् दक्षिणेऽम्बुजे ।
कृतनित्यविधि शिष्यं स्वस्तिकाद्यैः सुवर्चिते ॥ ८२ ॥
भद्रानन्तासने प्राग्वत् सकली कृत्य पूजयेत् ॥
सिद्धार्थदधिमृद्भस्मदूर्वा गोमयगोलकैः ॥ ८३ ॥
निर्मथ्य गन्धतोयेन प्रक्षाल्याभ्यर्च्य धूपितम् ।
पृथङ्मूलशतालब्धैस्तैः कुम्भैः स्वस्वमन्त्रतः ॥ ८४ ॥ 

अभिषिच्यात्तवसनमनन्तासनगतं पुनः । सकलीकृत्य सम्पूज्य 'दत्त्वोष्णीषादिसाधनम् ॥ ८५ ॥ अधिकारं च विज्ञाप्य शिवायास्मै समर्पयेत् । अनुज्ञाप्य शिवं पश्चाद् गत्वा कुण्डान्तिकं पुनः ॥ ८६ ॥ पञ्च पञ्चाहुतीराज्यं कलानां च जुहोत्यथ । पूर्णां च हुत्वा तद्धस्तं दक्षिणं परिगृह्य तु ॥ ८७ ॥ • दर्भोल्मुकेन पञ्चाङ्गैः कनिष्ठादिषु लाञ्छयेत् । प्राग्वच्छिवं तथैवाग्निं कुम्भास्त्रे च विसर्जयेत् ॥ ८८ ॥

हेमवस्त्रान्नपानाद्यैः परितोष्याथ तज्जनम् ।

१९७ शिवगुर्वाज्ञया लब्धमधिकारं प्रवर्तयेत् ॥ ८९ ॥ इत्थं दीक्षाः साभिषेका यथावत् प्राधान्येनात्रोदितास्तन्त्रसिद्धाः । याभिर्विश्वक्लेशहानिं च विन्देद् भोगैश्वर्याण्यप्ययत्नेन मोक्षम् ॥ ९० ॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे साधकदीक्षाचार्याभिषेकपटल एकोनविंशः ।