पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१९४ 1 ईशानशिवगुरुदेवपद्धतौ [क्रियापाद: आयतः आनन्दः नन्द्यायतः सुनन्दः महाकुक्षिः नैन्दी सुनाभिः नन्दिवर्धनः ह्रस्वनाभिः श्रीमुखनाभिः मण्डली विजयः सुघोषः तारः उत्तारः सुतारश्व षोडश शङ्खाः पूरणीयाः । मन्थरः सुभद्रः पृथुलोष्ठः सुदन्तः ह्रस्वोष्ठः मन्थः रग्रीवः जयो विजयश्च कलशा एते पृथक् पृथक् शालिदर्भविष्टरेषु स्थाप्याः । अथौषध्यः कथ्यन्ते. - जया विजया जयन्ती अपराजिता विष्णुकान्ता श ङ्खपुष्पी हेमपुष्पी नाकुली विशाला बला अतिबला गन्धनाकुली सहा सह देवा वाराही शतावरी मेदा महामेदा वृधिश्वधिः काकोलीसंज्ञा यथालाभ- मोषधयो ग्राह्याः । रत्नानि माणिक्यमुक्तागोमेद कमरकतपुष्यरागवज्रनील- प्रवालस्फटिकानि । बीजानि शालियवमुद्गमाषतिलसिद्धार्थ गोधूमा इत्ति सप्त । चन्दनकुङ्कुमागरुकर्पूरकुष्ठमांसीकच्चोरोशीरण्यष्टौ गन्धाः । वल्मीकाग्रगन्ध पर्वताग्रनदीतीरमहानदीसङ्गमबिल्वमूल गजदन्तगोशृङ्गेभ्यो गृहीता मृदो ऽष्टौ । इत्येभिर्द्वव्यैर्मिश्रितैः शङ्खांश्च कलशांश्च तीर्थजलैरापूर्य षोड़शस्वरैः शङ्खान् क्रमेणापूरयेत् । अष्टवर्गैः कलशान् शङ्खेषु पृथिव्यादिमूर्त्यष्टकमष्ट- दिक्षु विदिच्छङ्खेषु वामादिशक्त्यष्टकं बहिः कलशाष्टके विद्येश्वराष्टकं च सर्वान् समावाह्य संस्थाप्य विधिवदर्चयेत् । मध्ये पद्मकर्णिकायां सुवर्णरजत. ताम्रमृन्मयाद्यन्यतमे शक्त्यनुगुणे कुम्भे सर्वोषधाबीजरत्नगन्धपुष्पान्वितें स- हिरण्ये तीर्थजलैः मन्त्रसंहितया द्वादशान्तामृतं स्मृत्वापूर्य मनोन्मनीं शक्तिं साङ्गमूर्तिमूलमन्त्रं सदाशिवमासनादिक्रमेण यथावदाबाह्य सर्वत्र कुर्चानि पल्ल वफलानि च निघायाहृतवस्त्रैरा वेष्टितकण्ठमालाभिरलङ्कृत्य यथावन्नैवेद्यान्त सम्पूज्य, तत्र रलादीनां प्रक्षेपमन्त्रा उच्यन्ते । ओं आं ई ऊं सर्वरत्नेभ्यो विश्वात्मकेभ्यो नमः । प्राग्वत् सर्वबीजेभ्य इन्द्रात्मकेभ्यो नमः । प्राग्वत् सर्वो- षधिभ्यः सोमात्मकेभ्यो नमः । सर्वगन्धेभ्यः पार्थिवात्मकेभ्यो नमः, सर्वमृ- द्वयः पृथिव्यात्मकेभ्यो नमः इति विन्यसेत् । एवं कलश शङ्खतोरणरत्नादी- न्यभिमन्त्र्य सम्पूज्य नियोजयेत् तदनु शिष्यं कृतोपवासं कृतस्नाननित्य- विधिं निर्वर्तितनैत्यक शिवार्चाग्निकार्यं शुक्लाम्बरं प्रक्षालितपाणिपादं मण्डपस्य प्रदक्षिणं कारयित्वा प्रागादि शान्तिकलाद्वाराणां तोरणानां च कृतपूजं प्रागादि- स्वर्णानुगुणद्वारेण प्रवेश्य शिवकुम्भास्त्राग्नीनां कृतार्चनप्रणामं स्वयं मन्त्रसंहि-

१. 'नदी' ख. पाठः.