पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धतौ तत्तदामोत्ययत्नेन शिवभक्तस्तु नान्यथा | प्राप्ताभिषेकमन्त्रोऽथ प्राप्यानुज्ञां गुरोस्ततः ॥ २० ॥ साधकः साधयेन्मन्त्रं दृष्टादृष्टफलाप्तये । शस्तर्क्षतिथिवारादौ स्वानुकूले विशेषतः ॥ २१ ॥ समभ्येत्य शिवक्षेत्रं भूरिपुष्पकुशाम्बुमत् । दक्षिणोत्तरंदिग्द्वारं लिङ्गं यत्नेन वर्जयेत् ॥ २२ ॥ ब्रह्म स्कन्देन्द्र नन्दीश वृषविष्णुगणेश्वरैः । मातृभास्करदुर्गाभिर्युक्तं लिङ्गं तु कीलतम् ॥ २३ ॥ बर्जयेदित्यर्थः । अपिच साधकान्तरसेवित मानुषप्रतिष्ठितं पूजार हितं म्लेच्छान्त्यजजनदूषितं चलितभिन्नादिदोषदुष्टमनेकलिङ्गं च वर्ज्यम्। एकलिङ्गं पश्चिम स्वयम्भुलिङ्गं च श्रेष्ठम् । पूर्वं दैवमार्षं च बाणं च मध्य- मम् । असुरराक्षसपिशाचादिप्रतिष्ठितं कनिष्ठम् । एतेषु लिङ्गेषु सर्वार्थमन्त्र- साधारणतया मंन्त्रसङ्करो नास्तीत्यतः स्वमन्त्रमेषु विन्यस्य पूजयेत् । अज्ञा- तमन्त्रलिङ्गेषु प्रणवं मातृकां वापि विन्यस्य स्वहृदये पूरकेण समानीय रेच- केन द्वादशान्ते लयं नीत्वा प्रतिष्ठाविधानेन स्वमन्त्रं विन्यस्य पूजयेत् | त्रि- विधलिङ्गानामसम्भवे शक्तिमता गुरुणा वात्मनान्येन वा प्रतिष्ठितं सान्निध्य- वल्लिङ्गमप्याश्रयणीयमिति चतुर्थः पक्षः । तदनु १९० साङ्गं कृत्वा स्त्रयागं तु हुत्वाज्येन तिलैरपि । वास्तुपूजां विधायादौ वास्तुदेवाभिरक्षिते ॥ २४ ॥ अष्टौ तिलान् हस्तमात्रान् लोकेशास्त्रैरधिष्ठितान् । दिक्षु तत्क्षेत्ररक्षार्थं निखनेत् तत्तदस्त्रतः ॥ २५ ॥ सूत्रेण वर्मालब्धेन शङ्कुना वेष्टयेद्वहिः । हस्तेन सप्तबीजानि विकीर्य परितः पुनः ॥ २६ ॥ रेखां च भस्मना कुर्याद् यवमिश्रैतिलैरपि । प्राकारं परिकल्प्यात्र दत्त्वा भूतबलिं तथा ॥ २७ ॥ अकृष्टमन्नमक्षारलवणं शुचि यल्लघु । सकृदश्नन् परिमितं स्नाने त्रिषवणे. रतः ॥ २८ ॥ [क्रियापादः