पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

साधकदीक्षाधिकारः ] उत्तरार्धे एकोनविंशः पटलः । १८९ तदनु गुरुः स्वसव्यहस्तेन तस्य दक्षिणकरं गृहीत्वा पश्चिमद्वारेण प्रवि- श्य शम्भु कुम्भमण्डलशिवानां प्रदक्षिणत्रयं पूजां च कारयित्वा जानुभ्यां प्रणा- मेनावनिं गतस्य शिष्यस्याज्जलौ सगन्धकुसुमसलिलं साध्यमन्त्रमुच्चार्याञ्जलिना मोपदेशं मन्त्रं दद्यात् । सोऽपि तमञ्जलिं स्वशिरसि निधाय गुरवे नमस्कृत्य सुषुम्नामार्गेण सृष्टिक्रमेणानीय स्वहृदयकमले निवेश्य द्वादशान्तामृतेनाप्लाव्य मन्त्रसंहितयाज्येन हुत्वा शिवकुम्भाग्नीनां दक्षिणतः पद्मासने साध्यमन्त्रं साङ्ग- मावाह्य स्थापयित्वा शिववत् पूजयित्वा तस्मान्मन्त्रमुद्धृत्य साधकः स्वदेहे शक्त्यादिक्रमेण विचिन्त्य स्थापयेत् । यथा ब्रह्मशम्भुः x.com “शिवाच्छक्तिं ततो बिन्दुं बिन्दोर्नादं च नादतः । अर्धचन्द्रं हकारं च षष्ठमाद्यस्वरं तथा ॥ तदथो द्विपदं ब्रह्म कलाकारणम क्षरम् । मन्त्रबीजमनुच्चार्य सृष्टिसंहारकारणम् ॥" इति । एतेषां नव ग्रन्थिस्थानानि विज्ञेयानि द्वादशान्तशिखारन्ध्रललाट भ्रूम- ध्यता लुगलहृदयनाभिवस्तीनि । एतेषां स्थानेषु पद्मेषु कर्म ध्यात्वामृतेना- प्लावयेत् । अथ तं समयाचारान् गुरुर्ग्राहयेत् । ते च निर्वाणदीक्षितस्योदिताः साधकस्यापि समाना एव । अस्यापि सेवाव्रतधारणं विशिष्टलिङ्गपरिग्रहो विशुद्धाहारसेवा सङ्गपरित्यागो निग्रहानुग्रहेष्वनास्था च निषिद्धवर्जनं विहि- तानां कर्मणामपरित्यागश्चेति संक्षेपः । अथाग्निं संहितामन्त्रैः सन्तर्प्य च विसर्जयेत् । मण्डलस्थं तदाज्ञातः शिवकुम्भे नियोजयेत् ॥ १६ ॥

भूतेभ्योऽथ बलिं दिक्षु विकीर्य स्वस्वमन्त्रतः । 

ततः शिष्यं यथापूर्वमासनस्थं तु पूजितम् ॥ १७ ॥

मङ्गलैः शिवकुम्भेन गुरुस्तमभिषेचयेत् ।

अनेनैव विधानेन राज्यश्रीविजायाप्तये ॥ ९८ ॥ आयुरारोग्यसैौभाग्यपुत्रस्त्री पुष्टयेऽपि वा । नृपं वापि नरानन्यान् स्त्रियश्चाप्यभिषेचयेत् ॥ १९ ॥