________________
१८४ ईशान शिवगुरुदेवपद्धतौ [क्रियापदः दकबिन्दुं दत्त्वाथ वागशमिभ्यर्च्य सन्तर्प्य विज्ञापयेत् । भगवति! पञ्चत- त्त्वखेदितासि गच्छेदानीं स्वविषयमिति विसृज्य शान्त्यतीतकलां शक्तितत्त्वे विलीनां ध्यात्वा मायातत्त्वान्तमात्मतत्त्वमुपस्थापयेत् । प्रणवमूलादिकमात्मत- त्वाय नम इति सन्निधीकृत्य सप्ताक्षरेणोच्चैरुच्चारयन्नाहुतिशतं हुत्वैवं विभिव- कल्यकर्मशुद्धिर्भवेत् । ततः सदाशिवान्तं विद्यातत्त्वं स्वमन्त्रेणावाह्य स्थापयित्वाभ्यर्च्य तेनै- वोपांशूच्चारणेनाष्टोत्तरशतं हुत्वा मन्त्रोच्चारणवैकल्यं शुध्यति । ततः शक्त्यन्तं शिवतत्त्वमुपस्थाप्यावाह्य स्थापयित्वाभ्यर्च्य तेनैव मानसोच्चारणेनाष्टोत्तरशतं हुत्वा मनोविज्ञानवैकल्याच्छ्रुध्यति । ततस्तु विश्वाध्वव्यापिकां शक्तिमध्वान्तःस्थां विभावयेत् ॥ ११२ ॥ सर्वकारणरूपां च तदग्रे शिष्यपुद्गलम् । विशुद्धमणिसङ्काशं विचिन्त्याभ्यर्च्य तं गुरुः ॥ ११३ ॥
कर्तरीं शिखयामन्त्र्य वुभुक्षोर्द्वादशाङ्गुलात् ।
परतस्तु शिखां छिन्द्यान्मोक्षायाष्टाङ्गुलात् परम् ॥ ११४ ॥
शिखयैव शिखां छित्त्वा स्वायाच्छिष्यो विशुद्धये । गुरुश्च धौतपाण्यद्विराचान्तः प्रोक्षणाच्छुचिः ॥ ११५ ॥
ततो गुरुः प्रविश्यान्तः सशिष्यः सकलीकृतः । सपाशसूत्रां तु शिखां छन्नां गोमयगोलके ॥ ११६ ॥ स्रुचि स्रुवेण विहितां कृत्वा पूर्णाहुतिं यथा ।
हुत्वा बहिस्ततो गत्वा क्षालयेत् सुक्स्रुवावपि ॥ ११७ ॥
कर्तरीं च समाचम्य शिवमिष्ट्वा विशेषतः । विज्ञापयेद् भो भगवन्नध्वशुद्धिस्त्वदाज्ञया ॥ ११८ ॥
अस्यात्मनः कृता देव! लूनपाशशिखा यतः ।
शिवत्वं च परं धाम यात्वयं त्वदनुग्रहात् ॥ ११९ ॥ आज्ञा मे दीयतामस्य शिवत्वगुणयोजने । एवं कुरुष्वेति भगवतानुज्ञातः प्रहृष्टोऽर्घ्यपात्रहस्तः शिष्यसहितोऽग्नि - समीप उपविश्य प्राखत् प्रोक्षणताडनान्तःकरणसकलीकरणनाडीसन्धान-