पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८२ ईशानशिवगुरुदेवपद्धतौ [क्रियापाद:: स्थिरीकरणाय त्रिवारं हुत्वा वागीशमभ्यर्च्य हुत्वा विसृज्य प्राग्वद् विद्या- शान्तिबीजे ह्रस्वदीर्घे सन्धाय सन्निधीकृत्य मूलेन त्रिवारं हुत्वा विद्यां शा- न्तिकलायां विलीनां विभाव्य शान्ति शोधयेत् । ततः शक्तिं समभ्यर्च्य हुत्वा सप्ताक्षरेण तु । शान्ति स्वमन्त्रेणावाह्य संस्थाप्येष्ट्वा जुहोति च ॥ ९६ ॥ सन्निधानाय मूलेन हुत्वा ध्यात्वाध्वपञ्चकम् | सदाशिकान्तं तत्त्वानि पुराण्यष्टादशैव तु ॥ ९७ ॥ एकादय पढान्यत्र मन्त्रौ कवचपूरुषौ । त्रयो वर्णाश्च विज्ञेयाः शान्त्या व्याप्ताः पृथक् पृथक् ॥ ९८ । ततो वागीश्वरीं नानायोनिसञ्जननीं स्मरन् । आवाह्याभ्यर्च्य हुत्वाथ मूलेन प्राग्वदाहुतीः ॥ ९९ ॥ तदनु प्रोक्षणताडन प्रवेशच्छेदाकर्षणग्रहणयोजन गर्मजन्मकर्मार्जनैश्वर्य- भोगलयांश्च पूर्वचद् विधाय निष्कृतौ वर्मणा शतं हुत्वा मूलसप्ताक्षराभ्यां भगव- नादिना निष्कृत्य सर्वपाशशुद्धिं कुरु कुर्विति समाध्य भोगाद् बहिर्निर्गमनान्मूलसप्ताक्षरादिभिः । विश्लेषं सर्वभोगेभ्यः कृत्वाथ मलकर्मणोः ॥ १०० ॥ विश्लेषायाहुतीर्हुत्वा पाशच्छेदेऽस्त्रतस्तथा । मूलात् सप्ताक्षरादधुत्वा भगवन्नादिनात्मनः ॥ १०१ ॥ मलादितत्त्वादिव्यापकस्यच्छेदनं कुरु कुर्विति समाध्य प्राग्वत् पूर्णाहुतें दत्त्वा ओं ईश्वराय नम इति आवाह्याभ्यर्चयेदमुम् । हुत्वा च बुद्धयहकारी गृहाणेति तदाख्यया || १०२ ॥ हुत्वा त्रिवारं संश्राव्य कारणेशादिना तैतः । तं विसृज्यैश्वरं शिष्यं शान्तिपाशैर्वियोजितम् ॥ १०३ ॥ मूलसप्तार्णहोमेन भगवन्नादिनात्मनः । प्राग्वच्छान्तिकलापाशादुद्धारं कुरु कुर्विति ॥ १०४ li