पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७४ ईशान शिवगुरुद्वपद्धतौ पञ्चगव्यं चरोरंशं दन्तकाष्ठं च दापयेत् । पलाशपत्रे मुक्त्यर्थं भुक्तयेऽश्वत्थपत्रके ॥ २७ ॥ तत्राष्टग्रासमात्रं चरुं प्राशयेन्नाधिकमिति केचित् । दन्तकाष्ठाग्रपातेन ज्ञेयमस्य शुभाशुभम् । सोमेन्द्रेशाग्रपातस्तु शुभोऽन्याशास्त्रशोभनः ॥ २८ ॥ अशुभे शान्तिहोमं तु कुर्यान्मूलाङ्गदक्षिणैः । सुलिप्तायां क्षितौ दुर्भसंस्तरं सोत्तरच्छदे ॥ २९ ॥ प्राचीनेऽस्त्रशताब्धे मुक्तये प्राक्छिराः स्वपेत् । मुमुक्षुर्भस्मशय्यायां स्वपेद् दक्षिणमस्तकः ॥ ३० ॥ हृन्मन्त्रेणालभतैनं बध्नीयात् तच्छिखां हृदा | अस्त्रेणाच्छादयेच्चैनं सितसूक्ष्मेण वाससा ॥ ३१ ॥ तिलसर्षपरक्षाभिः शय्याबाये त्रिवर्तुलम् | प्राकारवद् विलिख्यास्त्राद् दत्त्वा भूतबलिं ततः ॥ ३२ ॥ स्वयं च पञ्चगव्यादि प्राश्याचम्य गुरुः स्वपेत् । तत्र प्रातः समुत्थाय स्नात्वानुष्ठैितनैत्यकः || ३३ ॥ शिवानुज्ञातमानीय शिष्यं स्वप्नान् विचारयेत् | अनुमोद्य शुभे स्वप्ने त्वशुभे तस्य शान्तये ॥ ३४ ॥ तिलाज्यचरुसिद्धार्थैर्मन्त्रसंहितया शतम् | • अघोरेण तथास्त्रेण हुत्वा दत्त्वा च दक्षिणाम् ॥ ३५ ॥ द्विजेभ्यश्चैव लिङ्गिभ्यः सुस्वप्नोऽस्विति वाचयेत् । अथ स्वप्नास्त्वशुभाः शुभाश्च कथ्यन्ते । क्रियापादः श्रुतो दृष्टोऽनुभूतश्च प्रार्थितः कथितस्तथा || ३६ || एष्यंश्च सूचकश्चेति स्वप्नः सप्तविधः स्मृतः । पञ्चैषु विफलाः पूर्वे फलदों चेप्यसूचकौं ॥ ३७ ॥ स्वाङ्गकेशनखानां च दन्तमासादबश्मनाम् | देवचन्द्रार्कवृक्षाणां सोचत तथात्मनः ॥ ३८ ॥