पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७२ तद् यथा [कियापाद ईशानशिवगुरुदेवपद्धतौ सम्प्रोक्ष्य हृत्प्रदेशेऽस्य सन्ताङ्य कुसुमास्त्रतः । स्वयं रेचकमार्गेण हुङ्कारं प्लुतमुञ्चरन् ॥ ९ ॥ प्रविश्य शिष्यहृदयं नाड्या तचेतनां स्मरन् । स्फुरतारकसङ्काशामांच्छियास्त्रेण मूलतः ॥ १० ॥ आकृष्य द्वादशान्तःस्थां शिवशक्त्युपबृंहिताम् । हृत्सम्पुटां गृहीत्वा तु संहारिण्याथ सूत्रकें ॥ ११ ॥ संयोज्य व्यापकं ध्यात्वा कवचेनावगुण्ठ्य तु । सम्पूज्य जुहुयात् तिस्रो मूलेनैवाहुतीस्ततः ॥ १२ ॥ ताडनग्रहणादीनि सूत्रे कुर्यान्न विग्रहे । मलादिपाशांस्तत्सूत्रे पशोरस्य विभावयेत् ॥ १३ ॥ भोक्तृत्वभोगविषयशरीरजननक्षमान् । ततश्च शान्त्यतीताद्याः कलाः सूत्रे नियोजयेत् ॥ १४ ॥ बीजमूलमतीतायां मूर्ध्नि स्थानमुदाहृतम् । तथैव सान्तो वायुस्थो द्वादशस्वरबिन्दुमान् ॥ १५ ॥ शान्तिबीजं ललाटात् तत्स्थानं कण्ठावधि स्मृतम् । वह्यारूढं शिखाबीजं विद्याबीजमिति स्मृतम् ॥ १९ ॥ कण्ठादानाभि तत्स्थानं विद्या तत्र व्यवस्थिता । सान्तं ज्ञान्तसमारूढं चतुर्थस्वरबिन्दुमत् ॥ १७ ॥ बीजमुक्तं प्रतिष्ठाया नाभेरागुल्फकस्थितिः । पृथ्वीदीर्घयुतं सान्तं निवृत्त्या बिन्दुशेखरम् ॥ १८ ॥ बीजं स्यात् स्थानमप्युक्तं गुल्फात् पादतलान्तकम् । तारादिकैः कलाबीजैः कलाख्याः सचतुर्थिकाः ॥ १९ ॥ ताडने हुंफडन्ताः स्युर्नमोन्ताः स्युर्नियोजने । स्वाहान्ताश्चैव होमे स्युरेवं सूत्रे नियोजयेत् ॥ २० ॥