पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे सप्तदशः पटलः । नियत्यां ज्योतिसंवर्तौ ततः सुकरसंज्ञितः । पञ्चान्तकैकवीरौ च शिवदश्च कलागताः ॥ २११ ॥ 4 ध्वनिर्णयाधिकारः] काले चेति यावत् । महादेवो वामदेव उद्भवश्चैक पिङ्गलः । एकनेत्रस्तथेशानो भुवनेशस्ततः परः ॥ २१२ ॥ अङ्गुष्ठमात्र इति चाप्यष्टावेते स्थलेश्वराः । कालतत्त्वाच्च मायायां भौवनी सप्तविंशतिः ॥ २१३ ॥ व्यापिन्व्यापिन् व्योम्निव्योम्नि अचेतनाचेतन महेश्वरपराय ज्योती - रूपाय सर्वयोगाधिपाय सर्वविद्याधिकृताय अनिघनाय गोप्त्रे गुह्यातिगुह्याय ओ नमोनमः सद्योजातमूर्तये वामदेव गुह्याय अघोरहृदयाय तत्पुरुषवक्राय ईशानमूर्धाय शिवाय सर्वप्रभवे ओं नमः शिवाय ध्यानाहाराय । व्यापिन्निति समारभ्य ध्यांनाहारपदावधि | पदानां विंशतिश्चात्र स्याद् विद्याकलथाखिलम् ॥ २१४ ॥ व्याप्तं संचिन्तयेदेवं षडिघाध्वन्यवस्थितिः । अथ शान्तिकलायां स्याच्छुद्धविद्येश्वरावपि ॥२१५ ॥ सदाशिवश्च तत्त्वानि त्रीणि तस्यां स्थितानि हि । वर्णास्त्रयः स्युर्गखका मन्त्रौ कवचपूरुषौ ॥ २१६ ॥ अष्टादशैव भुवनान्यत्र वामादिसंज्ञया । वामा ज्येष्ठा च रौद्री च काली कलविकरणी ॥ २१७ ॥ बलविकरणी चैव बलप्रमथनी तथा । सर्वभूतदमन्येका नवमी तु मनोन्मनी ॥ २१८ ॥ शुद्धविद्याह्वये तत्त्वे स्थितान्येवमनुक्रमात् । अनन्तेशश्च सूक्ष्मश्च ततश्चापि शिवोत्तमः ॥ २१९ ॥ एकनेत्रश्चैक रुद्रस्त्रिमूर्तिश्च तथापरः । श्रीकण्ठश्च शिखण्डी च भुवनानीश्वराह्वये ॥ २२० ॥ सदाशिवाख्यं भुवनं स्थितं सत्त्वे सदाशिवे । १६९ १. 'तश्वे च' क. पाट:-