पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६८ ईशान शिवगुरुदेवपद्धतौ छगलण्डो द्विरण्डश्च माकोटो मण्डलेश्वरः । कालञ्जरः शङ्कुकर्णः स्थूलेशोऽथ स्थलेश्वरः ॥ १९९ ॥ प्रारभ्य गन्धतन्मात्रमहङ्कारान्तमध्वनि । स्थितानि भुवनान्यष्टावेतानि च यथाक्रमम् ॥ २०० ॥ पैशाचं राक्षसं याक्षं गान्धर्वं चैन्द्रसौम्यके । प्राजेशं ब्राह्ममित्येतद् देवयोन्यष्टकं घियाम् ।। २०१ ।। अकृतं च कृतं चैव भैरवं ब्राह्मवैष्णवे । कौमारमामं श्रीकण्ठमिति योगाष्टकं स्थितम् ॥ २०२ ॥ गुणप्रकृतितत्त्वे तु स्थितमेतत् तु भौवनम् । अष्टकैः सप्तभिस्त्वेवं षट्पञ्चाशद् यथाक्रमम् ॥२०३ ॥ भुवनानि स्थितान्येवं पदान्य प्येकविंशतिः । महेश्वर परमात्मन् शर्व शिव निधनोद्भव निधन अनिधन ओं स्वः भुवः ओं भूः धू धू धू ना ना ना अनादे अभस्म अधूम अनग्ने अरूप ज्योति ज्योति तेज तेज प्रथम प्रथम अरूपिन् अरूपिन् । थन = २१ ॥ महेश्वराख्यात् प्रारभ्य स्यादरूपिपदावधि ॥ २०४ ॥ एवं पञ्चविधाध्वा स्यात् प्रतिष्ठाकलया समम् । षष्ठ्या व्याप्तं विचिन्त्यं स्यात् षोढाध्वव्याप्तिरीदृशी ॥२०५ ॥ अथ विद्याकलायां तु पुरुषो राग एव च । अशुद्धविद्या च कला नियतिः काल एव च ।। २०६॥ माया त्र सप्त तत्त्वानि दर्णसप्तकसंयुतम् । अक्षजाश्छचङा घश्च शिखाघोरौ च मन्त्रकौ ॥ २०७ ॥ वामानि भुवनानि स्युः सप्तविंशतिसंख्यया | बामो भीमस्तथैवोग्रो भवश्वेशान एव च || २०८ ॥ एकवीरश्च पुरुषे षडेते भुवनेश्वराः । प्रचण्डोमापतिश्चाजो ह्यनन्तश्चैकरुद्रकः ॥ २०९ ॥ [क्रियापादः रागतत्त्वे स्थितं त्वेतद् भुवनानां तु पञ्चकम् | क्रोषचण्डावशुद्धायां विद्यायां तु व्यवस्थितौ ॥ २१० ॥ 4. 'का', ९. 'तू'. ३. 'न ओ' ख पात्र Y ITT