पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ध्वनिर्णयाधिकारः] उत्तरार्धे सप्तदश: पटलः । १६७ कर सर्वभूतसुखप्रद भवोद्भव भव भव सर्व सर्व प्रथम प्रथम मुञ्च मुञ्च योगाधिपते महातेजः सद्भावेश्वर महादेव । थप्र = २८ ॥ मन्त्रावसानिकपदान्महादेवपदावधि || १८६ ॥ विलोमतः पदानि स्युरष्टाविंशतिसंख्यया ।

इत्यध्वपञ्चकं षष्ठया निवृत्तिकलया समम् ॥ १८७ ॥
व्याप्तं सञ्चिन्तनीयं स्यादध्वषट्कं विभागतः । 

आपोऽग्निर्वायुराकाशो गन्धश्च रसरूपके ॥ १८८ ॥ स्पर्शः शब्दश्च वाक्पादपाणिपायुभगानि च । श्रोत्रं त्वक्चक्षुषी जिह्वा प्राणश्चेतीन्द्रियाणि च ॥ १८९ ॥ मनोहङ्कारबुद्ध्याख्यं तदन्तःकरणत्रयम् । सर्वेषां त्रिगुणाथ स्यात् प्रकृतिः कारणं परा ॥ १९० ॥ त्रयोविंशतितत्त्वानि विलोमादिति संख्यया । हसषाः शवला रो यमभवाः फपना धदौ ॥ १९१ ॥ यतणा ढडढा टश्च त्रयोविंशतिवर्णकाः । शिरश्च वामदेवाख्यौ मन्त्रौ तद्वत् पुराणि तु ॥। १९२ ।। षट्पञ्चाशत् क्रमेण स्युरमेरेशादिनामभिः । अमरेशः प्रभासश्च नैमिशः पुष्कराषढी || १९३ ॥

डिण्डी मुण्डी भारभूतिरित्यष्टावम्बुतत्त्वके । 

हरिश्चन्द्रश्च श्रीशैलो जल्पीशाम्रादकेश्वरौ ॥ १९४ ॥

मध्यमेशो महाकालः केदारो भैरवस्तथा ।
भुवनाष्टकमित्येतत् तेजस्तत्त्वे व्यवस्थितम् ॥ १९५ ॥
गया चैव कुरुक्षेत्रं नोखलं कनखालकम् । 

विमलेशोऽट्टहासश्च महेन्द्रो भीमकेश्वरः ॥ १९६ ॥

इत्यष्टौ भुवनानि स्युर्वायुतत्त्वगतानि तु । 

वस्त्रापदो रुद्रकोटिरविमुक्तो महालयः ॥ १९७ ॥ गोकर्णभद्रकर्णौ च स्वर्णाक्षः स्थाणुरित्यपि । भुवनाष्टकमाकाशसंज्ञे तत्त्वे व्यवस्थितम् ॥ १९८ ॥ १. 'थ' ख. पाठः