पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धतौ . यमो मृत्यहरो धाता विधाता च तथापरः । कर्ता चैव च संयोक्ता वियोक्ता धर्म एव च ॥ १७५ ॥ तद्वद् धर्मपतिस्तत्र दशमो दक्षिणे स्थितः । निर्ऋतिर्मारणो हन्ता करदृष्टिर्भयानकः || १७६ ।। ऊर्ध्वकेशो विरूपाक्षो धूम्रलोहितदंष्ट्रिणः । बलश्चातिबलश्चैव पाशहस्तो महाबलः ॥ १७७ ॥ श्वेतोऽथ जयभद्रश्च दीर्घहस्तो जलान्तकः । मेघनाद: सुनादश्च वारुण्यां दश संस्थिताः ॥ १७८ ॥ " शीघ्रो वायुर्वायुवेगः सूक्ष्मस्तीक्ष्णः क्षयान्तकः । पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः ॥ १७९ ॥ रुद्रा दशैते विख्याता वायव्यां दिशि संस्थिताः । निधीशो रूपवान् धन्यः सौम्यदेहो जटाधरः ॥ १८० ॥ [क्रियापादः लक्ष्मीधरो रत्नघर: श्रीधरश्च प्रसादनः । प्रकाशो दशमश्चेति कौबैर्या दिशि संस्थिताः ॥ १८१ । विद्याधिपेश सर्वज्ञा ज्ञानभुग् वेदपारगः । सुरेशशर्वज्येष्ठाश्च भूतपालो बलिप्रियः ।। १८२ ॥ वृषो वृषधरोऽनन्तः क्रोधनो मारुताशनः । ग्रसनोदुम्बरीशश्च फणीन्द्रो वज्रदंष्ट्रिणौ ॥ १८३ ॥ शम्भुर्विभुर्गणाध्यक्षस्त्रिदशस्त्रिदशेश्वरः । संवाहश्च विवाहश्च लिप्सुर्ब्रह्मा त्रिलोचनः ॥ १८४ ॥ तेषामुपरि रुद्राणां वीरभद्रो व्यवस्थितः । भद्रकाल्याश्च भुवनमेवमष्टाधिकं शतम् ॥ १८५ ॥ भुवनानि क्रमोक्तानि रुद्राणां स्वाख्यया पृथक् । ओं नमोऽनन्त नमः शिवाय ओं नमोनमः सर्वद शर्व शिव सूक्ष्म सूक्ष्म शब्द शब्द पिङ्ग पिङ्ग पतङ्ग पतङ्ग तुरुङ्ग तुरुङ्ग साक्षिन् साक्षिन् पूर्व- स्थित असंस्तु (त? ता) संस्तुत अनचिता (न)र्चिंत ब्रह्मविष्णुरुद्रपर सर्वसान्निध्य- १. 'च', २. 'शुभमूं' क. पाठ:.