पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धतौ स्वरूपतो वर्णायतुं तानि वर्षशतैरपि । न शक्यानि यतो ग्रन्थगौरवादू भयमस्त्यतः ॥ १५१ ॥ समासेन प्रदर्श्यन्ते भुवनाध्वप्रसिद्धये । पृथ्वीतत्त्वादशाप्तत्त्वं ज्ञेयं दशगुणं ततः ॥ १५२ ॥ तेजस्तत्त्वं दशगुणं ततो वायुस्ततो वियत् । एवमुत्तरोत्तरप्रमाणानि पृथिव्यादिमायान्तानि तत्त्वानि विद्यात् (शुद्ध- विद्येश्वरसदाशिवतत्त्वानि क्रमात् सहस्रगुणितानि । शक्तिशिवतत्त्वयोरनाद्य न्तत्वात् परि (माणं नो) च्यते । १६४ अथाबादिषु तत्त्वेषु भुवनानां व्यवस्थितिः ॥ १५३ ॥ क्रमात् पृथग् वेदितव्या देशकैरध्वशोधने । गुह्याष्टकाख्यमप्तत्त्वेऽप्यमरेशादिकं न + ॥ १५४ ॥ वह्नौ गुह्यातिगुह्याख्यं हरिश्चन्द्राद्यमष्टकम् | + + + + + वित्राख्यमष्टकं वायुतत्त्वगम् ॥ १५५ ।। वस्त्रापदार्थं भीमाख्यमष्टकं व्योनि संस्थितम् । अहङ्कारान्तकं गन्धतन्मात्राद्येषु सप्तसु ॥ १५६ ॥ तत्त्वेषुच्छगलण्डादिशर्वाष्टकमवस्थितम् । पैशाचाद्यं तथा बुद्धौ देवयोन्यष्टकं स्थितम् ॥ १५७ ॥ योन्यष्टकाद्यं प्रकृतावकृताद्यमिह स्थितम् । स्थलेश्वराष्टकं यत् तु महादेवादिकं तु तत् ॥ १५८ ॥ कालतत्त्वे च मायायां विज्ञेयं स्याद् व्यवस्थितम् । वामाज्येष्ठादि नवकं शुद्धविद्याह्वये स्थितम् ॥ १५९ ॥ अनन्तेशादिसंज्ञाभिर्विद्येशभुवनाष्टकम् | स्थितमींश्वरतत्त्वे तु विज्ञेयं देशिकैः क्रमात् ॥ ११० ॥ सदाशिवाख्यं भुवनं स्थितं तत्त्वे सदाशिवे । निवृत्त्यादिकलासंज्ञं बिन्दौ भुवनपञ्चकम् ॥ १११ ॥ इन्षिकाद्यं पञ्चकं तु स्थितं नादे ततः परम् । व्यापिन्याद्यं पञ्चकं यच्छक्तावेव व्यवस्थितम् ॥ ११२ ॥