पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ तदूर्ध्वमा ध्रुवपथात् स्वर्लोकः स्वर्ग उच्यते । तत्रामरावती नाम शक्रस्य तु पुरी शुभा ॥ १३३ ॥ देवर्षीणां विमानानि तत्र सन्ति सहस्रशः | आदित्यानां च रुद्राणां वसूनामश्विनोरपि ॥ १३४ ॥ [क्रियापादः मरुतामपि साध्यानां पुराणि भुवनानि च । स्वदिक्षु लोकपालानां राजर्षीणां च मुख्यशः ॥ १३५ ।। गन्धर्वाणां पितॄणां च विमानानि सहस्रशः | अन्येषां च स्वर्गजितामावासः स्वरि (तः ति) स्मृतः ॥ १३६ ॥ ते स्वपुण्यानुरूपांस्तु भोगांस्तत्रैव भुञ्जते । शिशुमारो ध्रुवस्यापि स्यादाधारो ध्रुवोपरि || १३७ || ध्रुवात् कोट्या महर्लोको वैमानिकसुरैर्वृतः । कोटिद्वये महर्लोकादूर्ध्वं लोको जनः स्मृतः ॥ १३८ ।। तत्र सिद्धा विमानेषु मानसा ब्रह्मणः सुताः | निवसन्ति महात्मानो योगैश्वर्योपबृंहिताः ॥ १३९ ॥ आ ब्रह्ममलयादिति यावत् । कोटित्रये जनादूर्ध्वं तपोलोकः प्रतिष्ठितः । वैराजा नाम ये देवास्तपोलोके वसन्ति ते ॥ १४ ॥ > आ ब्रह्मप्रलयात् तेऽपि वसन्ति । तपोलोकात् तु षट्कोट्यामूर्ध्वं सत्यं प्रतिष्ठितम् । ब्रह्मलोकस्तु स ज्ञेय आब्रह्मप्रलया स्थितिः ॥ १४१ प्रजानां पतयश्चैवं दक्षभृग्वादयोऽमलाः । ब्रह्मलोकजितोऽन्ये च यतयो ब्रह्मवादिनः ॥ १४२ ॥ यत्र यद् ब्रह्मसदनं न तद् वर्णयितुं क्षमम् । • सत्यलोकात् ततः किञ्चिदूर्ध्वं विष्णुपुरं महत् ॥ १४३ ॥ तेजोमयमपर्यन्तं तन्न वर्णायतुं क्षमम् । ब्रा ब्रह्मा सदैवास्ते पूज्यमानः सुरादिभिः ॥ १४४ ॥