पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्ध सप्तदशः पटलः । निर्जीवः खलु बाह्यतोऽस्य तु तमः षट् त्रिंशता कोटिभि र्बाह्ये चाण्डकटाहतः स च घनः षट्कोटिगव्यूतिभिः ॥ १२० ॥ अलमतिप्रसङ्गेन । अथ भुवर्लोकादयः कथ्यन्ते । तद् यथा भूमेरूर्ध्वं योजनानां लक्षे सूर्यगतिः स्मृता । योजनैर्नवसाहस्रैर्विष्कम्भोऽर्करथस्य तु ॥ १२१ ॥ तत्प्रभामण्डलं तस्मात् त्रिगुणं हि प्रमाणतः । सूर्यलोकस्तु विज्ञेयो विमानशतसकुलः ॥ १२२ ॥ उद्यानैः ससमै रम्यैः शोभितः सजलाशयैः | सूर्याल्लक्षे स्थितश्चन्द्रस्तस्मान्नक्षत्रमण्डलम् || १२३ ॥ तस्माद् द्विलक्षे तु बुधो द्विलक्षेऽस्माच्च भार्गवः । द्विलक्षे भार्गवाद् भौमस्तद्वद् भौमाद् बृहस्पतिः ॥ १२४ ॥ • योजनानां द्विलक्षे तु गुरोः सौरिर्व्यवस्थितः । रथस्त्रिचक्रः सोमस्य कुन्दगौराश्च वाजिनः ॥ १२५ ॥ ते च वहन्त्येनं सोमलोकस्तु स स्मृतः । रक्ताष्टाश्वो बुधत्यापि रथो लोकः स तस्य हि ॥ १२६ ॥ कुसुम्भसहशाष्टाश्वः शुक्रस्यापि रथो महान् | पद्मरागारुणाष्टाश्वो हैमो भौमस्य वै रथः ॥ १२७ ॥ रथस्तु पाण्डराष्टाश्वो हैमः ख्यातो बृहस्पतेः । रथस्तु शबलाष्टाश्वः शनेरपि हिरण्मयः ॥ १२८ ॥ • धूसरस्तु रथो राहोर्नीलाष्टाश्वैरलङ्कृतः । अष्टौ धूम्रारुणाः केतोरश्वा युक्ता रथे स्मृताः ॥ १२९ ॥ तयोरपि स्थितिः ख्याता ह्यधस्तात् सोमसूर्ययोः । एतेषां तु पृथग् लोकास्त एव परिकीर्तिताः ॥ १३० ॥ शनेरुपरि लक्षे तु सप्तर्षीणां तु मण्डलम् । तेषामुपरि लक्षे तु मेधी भूते ध्रुवः स्थितः ॥ १३१ ॥ ग्रहनक्षत्रताराणां प्रेरको ध्रुव ईरितः । भूमेरुर्ध्व भुवर्लोकस्त्वा नक्षत्रपथात् स्मृतः ॥ १३२ ॥