पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६० ईशान शिवगुरुदेवपद्धतौ [क्रियापादः कौश्चात्त् द्विगुणो बाह्ये दध्य ब्धिस्तस्य बाह्यतः | शाकद्वीपो द्विमानोऽस्मात् तत्र वर्षाणि सप्त हि ॥ ११० ॥ जलदकुमारसु कुमारमणिचक कुसुमोत्तरमोदकमहाद्रुमसंज्ञानि वर्षाणि । उदयो रैवतश्चैव श्यामाको ऽस्तगिरिस्तथा । आम्बिकेयस्तथा रम्यः केसरी चेति पर्वताः ॥ १११ ॥ सुकुमारी कुमारी च नन्दिनी चेणुका तथा । इक्षुका घेनुका चैव गभस्तिः सप्त निम्नगाः || ११२ ॥ तत्र वर्णाश्च चत्वारो नगा मगधवामनाः | नन्दकाश्चैव पीताभाः सप्तसाहस्रजीविनः ॥ ११३ ॥ तेच सूर्यमूर्ति यजन्ते L शाकाद् बाह्ये तु दुग्धाब्धिर्द्विगुणोऽस्माच पुष्करः । तत्र वर्षाचलस्त्वेको मानसोत्तरसंज्ञितः ॥ ११४ ॥ मध्येनं वलयाकारः पञ्चाशद्भिः सहस्रकैः । योजनानां तु विस्तीर्णस्तावदुच्चो महागिरिः ॥ ११५ ॥. तस्य चोभयतो वर्षे तथैवोपरिमण्डले । अभ्यन्तरे महावीतो धातकी षण्डको बहिः ॥ ११६ ॥ तस्मिन् न नद्यो वर्णा वा द्विजप्रायोऽखिलो जनः । अयुतायुर्हेमवर्णो वायुमूर्ति यजत्यसौ ॥ ११७ ॥ तस्य मानसोत्तरस्य मध्ये त्रिषहस्रयोजनप्रमाणो न्यग्रोधतरः तस्मिन् ब्रह्मा सपरिवारो निवसति । , तस्योत्तरेण हर्यर्धतनोः शम्भोर्निकेतनम् वसत्यस्मिन् हरिहरः पूज्यमानः सुरासुरैः || ११८ ।। पुष्कराद् द्विगुणो बाह्ये स्वादूदः सागरो महान् । तद्वाह्ये दशकोट्यास्ति योजनानां हिरण्यभूः ॥ ११९ ॥ स्वाद्वब्धेस्तु बहिर्हिरण्यधरणिः कोट्या दशास्या बहि- र्लोकालोकगिरिस्त मेरुसदृशश्चोत्सेघविस्तारतः ।