पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षडध्वनिर्णयाधिकारः] उत्तरार्धे सप्तदशः पटलः । . विपापा त्रिदिवा नन्दा सुकृता चामलोदकाः | प्लक्षाद् द्विगुण इक्षूदो द्विगुणोऽस्माच्य शाल्मलः || १०० ॥ द्वीपस्तत्र च वर्षाण सप्त शैलाश्ध निम्नगाः | यथाहुः हरीतजीमूतरोहितवैद्युतमानसहंसनुप्रभसंज्ञानि वर्षाणि । कुमुदकुमु दोन्नतवलाहकद्रोणकङ्कमहिषककुद्मसंज्ञाः पर्वता ऋज्वायता इक्षूदसुरोदस्प- र्शिनः । योनितोया वितृष्णा च चन्द्रा शुक्ला विमोचनी ॥ १०१ ॥ निवृत्तिश्च सुभद्रा च सप्त नद्यस्तु शाल्मले । कापिला अरुणाः पीताः कृष्णाख्याश्च द्विजादयः ॥ १०२ ॥ तत्रायुतायुषो मर्त्या धूम्पा वायुं यजन्ति ते । शाल्मलाद् द्विगुणोबाह्ये सुरोदो मण्डलाकृतिः ॥ १२७ ॥ द्विगुणोऽस्य कुशद्वीपस्तस्मिन् वर्षाणि सप्त वै । उद्भिदो वेणुमांश्चैव सुरयो लम्बनो धृतिः ॥ १०४ ॥ प्रभाकरश्च कपिलो वर्षाः स्फीतजनाकुलाः । विद्रुमो द्युतिमान् हेमो हरिः पुष्टः कुशेशयः ॥ १०५ ॥ मन्दरश्चेति गिरयः सुराज्योदधिसङ्गताः । हेमाभास्ते च वर्षाणां सप्तसाहस्रजीविनः || १०६ ।। कुशाद् घृतोदाद् द्विगुणो बाह्येऽस्माद् द्विगुणः पुनः । क्रौञ्चद्वीपोऽस्य वर्षाणि सप्त नद्यश्च पर्वताः ॥ १०७ ॥ कुशलमनोहरोष्णकप्रवरान्धकारमुनिदुन्दुभिसंज्ञानि वर्षाणि । क्रौञ्चवा - मनकारण्डकादेविस्टम्विविदपुण्डरीक दुन्दुभिस्व नसंज्ञाः पर्वताः । गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा | ख्यातिश्च पुण्डरीका च नद्यः प्राधान्यतः स्मृताः ॥ १०८ | • पुष्कराः पुष्कला धन्यास्तिष्याश्च ब्राह्मणादयः । जीवन्त्यष्टसहस्राणि वर्षाणि शिवपूजकाः ।। १०९ ।।