पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

- ईशानशिवगुरुदेवपद्धतौ तत्रापि च गणाः केचिद् दिव्यरूपास्त्रिलोचनाः । भस्मच्छन्नास्त्रिपुण्ड्राडाः सन्ति रुद्रार्चने रताः ॥ ८९ ॥ स्वादूदकाब्धौ स्वाशासु लोकेशानां (पुरा)ण्यपि । प्रजापतीनां च पृथग् भोगवन्ति भवन्ति हि ॥ ९ ॥ अलमतिविस्तरेण । प्रस्तुतमेव प्रस्तूयते । [किंवापाद: जम्बूः शाकः कुशः क्रौचः शल्मलप्लक्षपुष्कराः । लवणक्षीरदध्याज्यगुलमयजलार्णवाः ॥ ९१ ॥ इति + + + + + + + न्त्रेष्वपि च केषुचित् । मध्वादिकः क्रमः प्रोक्तो द्वीपाब्धीनां विभागशः ॥ ९२ ॥ जम्बूः लक्षः शाल्मलब्ध कुश: क्रौञ्चस्ततः परम् । शाकश्च पुष्कराख्यश्च द्वीपा: सप्तार्णावावृताः ॥ ९३ ॥ लवणेक्षुसुरासर्पिर्दधिदुग्धजलार्णवाः । प्रोताः ++++++ ++ ++ पि सर्वशः ॥ ९४ ॥ मिथोविरोधिनोरेवं द्वीपाब्धिक्रमपक्षयोः । उत्तरं मतबहुल्यादत्राश्रित्य निगद्यते ॥ ९५ ॥ जम्बूद्वीपालावणोऽब्धिर्द्विगुणस्तस्य वामतः । लावणाद् द्विगुणो द्वीपः लक्षाख्यो वलयाकृतिः ॥ ९६ ॥ तस्मिन् सप्तैव वर्षाणि सन्ति सप्त (च) पर्वताः । तद्यथा ~~ शान्ताभयशिशिरसुखोदयानन्दशिवक्षेमकध्रुवसंज्ञानि वर्षाणि । गोमेदचक्रकनारददुन्दुभिसोमकऋषभ वैभ्राजसंज्ञा वर्षगिरयो लवणेक्षुसमुद्रस्प- र्शिनः सर्वे सहस्रयोजनविस्तारोच्छ्रयाः । तत्र तु आर्यकाः कुरराश्चैव विदंशा भाविनस्तथा ॥ ९७ ॥ वर्णाश्चत्वार एवं स्युर्यभात्र ब्राह्मणादयः । ते च पञ्चसहस्रायुःस्थिरयौवनशालिनः ॥ ९८ ॥ सोममूर्ति महादेवं यजन्तः सुखमासते । वर्षनद्योऽपि सप्तात्राप्यनुतप्ता शिवामृता ॥ ९९ ॥