पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षडध्वनिर्णयाधिकारः] उत्तरार्धे सप्तदशः पटलः । त्रिश्रृङ्गे मन्दरे नीले गन्धमादनपर्वते । कर्णिकारवने चैव पुराणि पुरशासितुः ॥ ७५ ॥ हेमरत्नविमानानि प्राधान्येन भवन्ति हि । अलकाख्या तु कैलासे धनदस्य पुरी शुभा ॥ ७६ ॥ वसुधारे वसूनां च रङ्गाधारे सुरर्षिणाम् । एकश्रृगे ब्रह्मणस्तु जैगीषव्यस्य चाश्रमः ॥ ७७ ॥ गजशैले तु दुर्गायां सुनीले रक्षसां पुरी | सुमेघे देवराजस्य श्वेताद्रौ गरुडस्य च ॥ ७८ ॥ षण्मुखस्य च तत्रैव क्रौञ्चे जारुधिपर्वते । यक्षाणां शतशृङ्गे तु त्रिशृङ्गा तथा श्रियः ॥ ७९ ॥ सहस्रशिखरेऽद्रीन्द्रे विद्याधरपुराणि हि । महालक्ष्म्याः पारिजाते सरस्वत्याः सुपार्श्वके ॥ ८० ॥ अञ्जनाद्रावप्सरसां गन्धर्वाणां च पाण्डरे । कुमुदाद्रौ तु रुद्राणां जारुधौ भास्करस्य च ॥ ८१ ॥ पिञ्जराद्री गणपतेर्हसकूटे तु वेधसः | तत्रैव सनकादीनां दैत्यानां पञ्चशैलके || ८२ ॥ दक्षिणे लवणाम्भोघौ लङ्काख्या रक्षसां पुरी | ऐक्षवाब्धौ गणेशस्य द्वीपाः सन्ति पुराणि च ॥ २३ ॥ सुराब्धौ भद्रकाल्याश्च भैरवाणां पुराण्यपि । वीरभद्रस्य मातॄणां क्षेत्रेशस्यापि तत्र हि ॥ ८४ ॥ घृतोदेऽग्नेश्च देवानां दध्यब्धौ ब्रह्मणो हरेः । नारायणस्य क्षीराब्धौ श्वेतद्वीपोऽतिशोभनः ॥ ८५ हेमरत्नविमानाढ्यः पञ्चलक्षप्रविस्तृतः । चतुर्भुजैः' श्वेतवर्णैः शङ्खचक्रगदाधरैः ॥ ८६ ।। विष्णुसारूप्यमुक्तैस्तु जनैः स्त्रीभिश्च शोभितम् । तत्र दिव्ये विमाने तु शेते नारायणो विभुः ॥ ८७ ॥ शेषाहिशयने दिव्ये श्री भूमिसहितो विराट् । सेवितः कुमुदाद्यैश्च विष्वक्सेनादिकैर्गणैः ।। ८८ ॥