पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरा सप्तदशः पटलः । लावणेन समुद्रेण द्वीपोऽयं वेष्टितो बहिः । नवानामपि वर्षाणां मध्यमं स्यादिलावृतम् || ४९ ॥ मेरुश्च तन्मध्यगतः केसराचलसङ्गतः । इलावृताद् दक्षिणतो हरिकिम्पुरुषाह्वये || ५० || (भारत) नव वर्षाणि त्रीणि तेष्वचलास्त्रयः । निषेधो हेमकूटश्च हिमवांश्चात्र दक्षिणे ॥ ५१ ॥ पूर्वापरायताः सर्वे पूर्वापरसमुद्रगाः । रम्य हैरण्यकुरवो वर्षत्रयमिलावृतात् ॥ ५२ ॥ उत्तरे गिरय (स्ते च) प्राग्वत् प्रागायतास्त्रयः । नीलः श्वेतस्त्रिशृङ्गी च वर्षसीमास्ववस्थिताः ॥ ५३ || प्राच्यामिलावृताद् वर्षो येको भद्राश्वसंज्ञितः । पश्चिमे केतुमालश्च तयो वर्षपर्वतौ ॥ ५४ ॥ आनीलनिषधायामौ माल्यवद्गन्धमादनौ । इलावृते पद्मवर्णा जम्बूफलरसाशिनः ॥ ५५ ॥ त्रयोदशसहस्रायुस्तेषां पूज्यश्च शङ्करः । भद्राश्वेे मानवाः शुक्ला दिव्यरूपायुतायुषः ॥ ५६ ॥ दिव्याप्रभोजना देवं यजन्ति च महेश्वरम् । कुसुम्भकुसुमप्रख्या हरिवर्षेऽयुतायुषः ॥ ५७ ॥ विष्णुं यजन्ते मनुजाः सर्वे चैक्षवभोजिनः । किम्पूरुषे हैमवर्णा नरास्ते चायुतायुषः ॥ ५८ ॥ प्लक्षवृक्षफलाहारा ब्रह्माणं पूजयन्ति ते । भारते नैकवर्णास्तु नानाभाषाशनायुषः ॥ ५९ ।। निर्णयाधिकारः] 3 नानादेवार्चनाः सर्वे नानाकर्मकरास्तथा । महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥ ६० ॥ विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः । मुख्यशोऽत्र तथा नयो गङ्गा गोदावरी तथा ॥ ६१ ॥