पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धतौ ख्याता सीता गता प्राचीं भद्राख्या चोत्तरां दिशम् । याम्यामलकनन्दाख्या सुचक्षुः पश्चिमां गतां ॥ ३८ ॥ चतुर्दिक्षु गत्वा लवणसागरं प्रविष्टा इति यावत् । पूर्वेण मन्दरो मेरोर्दक्षिणे गन्धमादनः । विपुल: पश्चिमगिरिः सुपार्श्वश्चोत्तरे स्थितः ॥ ३९ ॥ एते चत्वारोऽपि मेरोविष्कम्भगिरयः प्रत्येक मष्टसहसयोजनप्रमाणा रत्न- बहुला दिव्यजनसेव्याः । तेषु क्रमाद् देवोद्यानानि सरांसि च । यथा वनं चैत्ररथं प्राच्यां दक्षिणे गन्धमादनम् । बैभ्राजं विपुले तद्वत् सुपार्श्वे नन्दनं स्मृतम् ॥ ४० ॥ अरुणोदं सुभद्रं च सितोदमथ मानसम् । सरांसि देवभोग्यानि मन्दरादिष्वनुक्रमात् ॥ ११ ॥ [क्रियापाद: मन्दरादिषु तद्वच्च वृक्षाणां तु चतुष्टयम् । विद्यात् कदम्बो जम्बूश्च पिप्पलोऽथ वटस्तथा ॥ ४२ ॥ ते च प्रत्येकं द्विसहस्रयोजनविष्कम्भोच्छ्रयाः | गन्धमादनसंस्थस्तु जम्बूद्वीपस्थपादपः । जम्बूस्तन्नामधेयेन जम्बूद्वीपोऽयमुच्यते ॥ ४३ ॥ महागजप्रमाणानि स्वादूनि रसवन्ति च । सार्वकालं फलान्यस्य निपतन्ति सहस्रशः ॥ १४ ॥ तस्मिन् फलरसोद्भुता नाम्ना जम्बूनदी सरित् । प्रवृत्ता देवगन्धर्वसिद्धचारणसेविता ॥ ४५ ॥ तज्जलस्पर्शनात् काष्ठमृत्तिकाशर्करादिकम् । जाम्बूनदाख्यं भवति स्वर्ण षोडशवर्णकम् ॥ ४६ ॥ तज्जलस्नानपानेन प्राणिनो ये चतुर्विधाः | सर्वे भवन्ति सौवर्णा निर्जराधायुतायुषः ॥ ४७ ॥ मेरोस्तु परितः ख्यातो लक्षयोजनविस्तृतः । जम्बूद्वीपस्य स्खण्डानि नव वर्षाणि तानि हि ॥ ४८ ॥ Bened 7