पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे सप्तदशः पटलः । धुधूरेन्दुकलाभुजङ्गवलयलग्जाटजूटोज्ज्क्लः पार्वत्या सहितस्तु हाटकशिवो दिव्यैर्गणैरावृतः ॥ २८ ॥ दैत्यदानवनागेन्द्रकन्याभिश्च कुमारकैः । अभ्यर्च्यमानः सततं सुगन्धकुसुमोत्करैः ॥ २९ ॥ तस्योर्ध्वं खलु भूलोकादासत्यात् सप्तधा स्थितम् । ब्राह्मं तु भुवनं प्रोक्तं ब्रह्मसृष्टयभिपूरितम् ॥ ३० ॥ सस्य दशलक्षयोजनघना भूमिः पञ्चाशत्कोटियोजनविस्तृता पद्माकारा- वस्थिता । मध्येऽस्याः कर्णिकाकारो मेरुः कनकपर्वतः । स्थितः षोडशसाहस्रयोजनं त्ववनावधः ॥ ३१ ॥ चतुरशीतिसाहस्रं योजनानां तथोच्छ्रितः । मूले षोडशसाहस्रं योजनं विस्तृतश्च सः ॥ ३२ ॥ "ततोऽपि द्विगुणं मूर्ध्नि विस्तृतः स महागिरिः । चतुर्दशसहस्रैस्तु योजनैर्ब्रह्मणः पुरी ॥ ३३ ॥ मध्येऽत्र मानसी दिव्या नानारत्नप्रभोज्ज्वला | तस्याः पूर्वाधष्टदिक्षु इन्द्रादिलोकपालानामष्टौ पुर्यो विश्वकर्मविनि- र्मिताः । ताश्चामरावती तेजोवती सांयमनी कृष्णावती शुद्धावती गन्धावती म- होदया यशोवतीसंज्ञाः । किञ्चित् पश्चिमतस्तत्र विष्णोरपि पुरं महत् ॥ ३४ ॥ तद्वत् पूर्वोत्तरे भागे ज्योतिः शिखरसंज्ञितः । पर्वतोऽष्टसहस्राणां योजनानां प्रमाणतः ॥ ३५ ॥ तत्र दिव्यविमानेषु पार्वत्या सहितो हरः । गणेश्वरैः परिवृतो रमतेऽभ्यर्चितः सुरैः ॥ ११ ॥ स्वर्गादापतिता गङ्गा प्लावयन्तीन्दुमण्डलम् । तस्मिन् हरजटाजूटे पतितास्माच निर्गता ।। ३७ ॥ V