पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५१ ईशान शिवगुरुदेवपद्धतौ [क्रियापादः | हतप्त वालुकास्थि भङ्गसूकरखमांसभक्षणावाङ्मुख लम्बनानि कुम्भीपाकप्रधानान्ये- कादश । अवीचिक्रिमिनिचयकूटशल्मलिनिरुच्छ्वासामेध्यकूपक्रिमिकूपान्धकूप- निरालम्बनपतनशूलप्रोतवैतरणिसंज्ञान्यवीचिप्रधानानि दश । कुश्माण्डरुद्रः सर्वेषां नरकाणां प्रभुः स्मृतः ++ + (योज) नादूर्ध्वं सप्तपाताळसंस्थितिः ॥ २० ॥ तेषां नवतिलक्षाणि प्रत्येकं विस्तृतिः स्मृता | उपर्युपरि सप्तापि पातालानि स्थितानि हि ॥ २१ ॥ अतलं चैव पातालं नितलं च गभस्तितम् । महातलं च सुतलं रसातलमतः परम् ॥ २२ ॥ तानि च क्रमाद्धेममाणिकेन्द्रनीलपुष्यरागरजतस्फटिकमयानि । रसातलं तु शैलमयं मुक्ताफला कीर्णमिति विद्यात् । दैतेया दानवा नागाः कृतपुण्यास्तु ये पुरा । पातालेषु वसन्त्येषु हरपादार्चने रताः ॥ २३ ॥ विरोचन हिरण्याक्षप्रह्लादबलिशम्बराः । वृत्राद्याश्चैन दैत्येन्द्राः पातालस्वर्गवासिनः ॥ २४ ॥ भूमेश्च धारणे युक्तो विष्णुर्योऽनन्तविग्रहः । सोऽप्यास्ते भवने दिव्ये नागेन्द्रैरर्चितः सदा ॥ २५ ॥ तत्र भोगवती नाम वासुकेर्नगरी शुभा । हेमरत्नमयी दिव्या दिव्यभोगसमन्विता ॥ २६ ॥ क्रमात् पातालानामधिपतयः सप्त रुद्रास्तत्र तत्र निवसन्ति । ते च चण्डविजयज्येष्ठामयाथर्वपदमहारुद्रनैर्ऋतसंज्ञाः । सामान्येन सर्वपावालाना- मधिपतिर्हाटकेश्वरदेवः । हैमं तु हाटकेशस्य पुरं दिव्यगणावृतम् । विस्तारायामतस्तुल्यं सहस्रद्वययोजनैः ॥ २७ ॥ तस्य विमानं द्विशतयोजनप्रमाणम् । तन्मध्ये कनकद्युतिस्निनयनः सिंहासनस्थो भुजै- र्बिभ्राणो वरदाभये च हरिणं उङ्कं च दिव्याकृतिः । -