पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इशानशिवगुरुदेवपद्धतौ क्रियापादः तत्त्वाध्वा चैव वर्णाध्वा मन्त्राध्वाध्वा च भौवनः ! पदाध्वा च कलाध्वा च षट्कारोऽध्वनिर्णयः ॥ २ ॥ व्याप्यास्तत्त्वादयः पञ्च मलाद्या व्यापकास्त्रयः । पुनर्मलादयो व्याप्याः कलाध्वा व्यापकः स्मृतः ॥ ३ ॥ तत्र तत्त्वानि षट्त्रिंशत् तत्त्वाध्वा स्याद् विलोमतः । क्षकारादिरकारान्तो वर्णाध्वाक्षरसन्ततिः ॥ ४ ॥ सधादिकानि ब्राह्माणि मन्त्राश्च हृदयादयः । मूलमन्त्रश्च मन्त्राध्या प्रागेवात्र प्रदर्शितः ॥ ५ ॥ कालाग्न्यादीनि शक्त्यन्तं भुवनानि शतद्वयम् । सचतुर्विंशतिपुरं भुवनाध्वेति कथ्यते ॥ ६ ॥ व्योमव्यापिपदान्यत्र यान्येकाशीतिसंख्यया | विलोमतः पदाध्वा स्यान्मन्त्रोद्धारे स चोदितः ॥ ७ ॥ निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिश्च पञ्चमी । शान्त्यतीतेति हि कलाः कलाध्वा सोऽपि दर्शितः ॥ ८ ॥ तन्त्रेऽस्मिन् प्रागनुक्तत्वाद् भुवनांध्वाथ कथ्यते । कालाग्निसंज्ञं कूष्माण्डं हाटकं ब्राह्मवैष्णवे ।। ९ ।। रौद्रं च भुवनान्यत्र ब्रह्माण्डान्तःस्थितानि षट् । ब्रह्माण्डमूले कालामिभुवनं दशकोटिभिः ॥ १० ॥ योजनैर्विस्तृतं तस्य विमानं लक्षयोजनम् । तस्य सिंहासनं पञ्चसहस्रैः साग्निमण्डलम् ॥ ११ ॥ अत्र मञ्जर्यौ।

- "कालाग्निः स च योजनायुततनुर्लोकान् दिक्षुः स्थितो ऽभ्युद्गीर्णामिशिखैस्त्रिनेत्र चिकटैर्वक्रैश्च दंष्ट्रोन्ज्वलैः । सत्पाशाङ्कुशखड्गखेटक शरेष्वासाग्विखट्वाङ्ग कै- र्दोर्भिः शूलकपालसाभयवरैर्नानाहिभूषान्वितः ॥" इति । अपिच अनतिकृश कृशानुश्रेणिविद्युद्वितान- द्युतिकपिलजटाभिर्विप्रकीर्णाभिरुग्रः ।