१४४ इति मञ्जर्याम् । ईशानशिवगुरुदेवपद्धतौ तद्वत् तिलैश्च हुत्वाथ हुत्वा पूर्णाहुतिं तथा ॥ ४८ ॥ रुद्रादिभ्यो बलिं क्षिप्त्वा लब्धानुज्ञः शिवाद् गुरुः । शिष्यं तु शिष्यौ शिष्यान् वा दीक्षयेदधिकारतः ॥ ४९ ॥ एतावत् कर्म सामान्यक्रियादीक्षासु देशिकैः । सामय्याद्यासु विज्ञेयं साधकान्तास्वनुक्रमात् ॥ ५० ॥ सामान्यक्रियाधिकारः । अथ समयदीक्षायां यथोदिताञ् शिष्यान् कृतदन्तधावनान् निर्वर्तित - स्नानसान्ध्यनित्यानुष्ठानान् धवलाम्बरोत्तरीयान् द्वारा बहि: संस्थाप्य स्वयं- मन्तः प्रविश्य प्रणम्य देवं विज्ञापयेत् । [क्रियापाद: यदर्थोऽयं मया देव ! शिवयज्ञः प्रवर्तितः । त इमे पशवः शान्ता द्वारि तिष्ठन्ति वारिताः ॥ ५१ ॥ तत् कुरुष्व प्रसादं मे तत्प्रवेशाय शङ्कर ! | करोम्यनुग्रहमिति देवेनानु कृते || ५२ ॥ सकलीकृत्य चात्मानं सदाशिवतनुर्गुरुः । दीक्षाधिकरणेष्वेकः पञ्चस्वपि शिवो ह्यहम् ॥ १३ ॥ यज्ञसंरक्षकः कुम्भैः कर्मसाक्षी च मण्डले । होमाधिकरणेनाम शिष्ये तत्पाशबन्धहृत् ॥ ५४ ॥ आचार्योऽनुग्रहपरः सोऽहमेवेति भावयेत् ॥ ५५ ॥ द्वारस्य बाह्यभुवि मण्डलकेऽथ शिष्यं दर्भाक्षतप्रणवपङ्कजविष्टरस्थम् । बद्धाञ्जलिं भगवदुन्मुखमूर्ध्वकायं पश्येद् गुरुः स्वयमुदग्वदनोऽर्ध्य हस्तः ।। .
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१५१
दिखावट