पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सामान्य क्रियाधिकारः] उत्तराधें षोडशः पटलः । एवं गणेशमभिवन्द्य तु मण्डपे प्राङ् मध्ये सगन्धजलगोमयसम्प्रलिप्ते । लिङ्गोद्भवान्यतममप्यथ भद्रकं वा संलिख्य मण्डलमथात्र यजेन्महेशम् ॥ आनन्तमासनमथो परिभाव्य तस्मिन्नावाह्य चोक्तविधिना ( च सदा) शिवं तम् | मुख्योपचारपरिबर्हसमेतमिष्ठा तुष्टे शिवे विधिवदावरणान्यपीष्ट्वा ॥ ४४ ॥ आवरणानीति पञ्चावरणान्युच्यन्ते । तद्यथा - प्राच्यां तथानिशरणे चतुरश्रकुण्डे त्वाधाय वह्निमपि तत्र सदाशिवाख्यम् । + + + + + दिचरोऽस्तु चतुर्थमंशं मूलाङ्गमूर्तिमनुभिः क्रमशो जुहोति ॥ - यथोदितमग्निमुक्त प्रकारेणाधाय शिवसन्धानं च कृत्वा पञ्च- संस्कारसंस्कृतादग्नेः पूर्वमेव किञ्चिदुद्धृत्य चुल्ल्यां प्रज्वलितं कपिलाक्षीरे पञ्च- प्रसूतिशालितण्डुलैरे काशष्यदीक्षायां प्रतिशिष्यं प्रतिकुडुम्बवृदया प्रोक्तक्रमेण चरुं श्रपयित्वा यथावदभिघार्य कुण्डान्तिके वारुण्यां दर्भेषु संस्थाप्य मन्त्रसं- हितयाज्येन हुत्वा चरौ सम्पात्य धेन्वामृतीकृत्य चतुर्धा चरुं विभज्य (म ? मू) - लस्थायैकमंशं भगवते कुम्भस्थायापरं निवेद्यान्यमग्नये शिष्टं सशिष्यायात्मने स्थापयेत् । अत्र ब्रह्मशम्भुः इति । अत्र - “अभिनीय शिवायांश मग्नये कलशाय च | सशिष्यायात्मने शेषं रक्षेदविहतं चरोः ॥” अथावदानत्रितयं जुहुयात् तु पृथक् पृथक् । स्रुचैव मूलमन्त्रेण क्रमेणाज्याभिघारितम् ॥ ४६॥ अथाज्यामिश्रितं हुत्वा मूलेनैकादशाहुतीः । ब्रह्माङ्गमूर्तिमन्त्रैस्तु हुत्वैकैकां पृथक् पृथक् ॥ ४७॥ १४३ ."ब्रह्माख्य मन्त्रैश्च षडङ्गमन्त्रैराज्येन सर्वैः परिवारमन्त्रैः । विद्येश्वराद्यैर्जुहुयात् क्रमेण”