पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४२ अथात्र ब्रह्मशम्भुः ईशान शिवगुरुदेवपद्धतौ “दशस्वपि दिशास्वैन्द्रीप्रभृतिष्विन्द्रपूर्वकान् । सुरानुपेन्द्र पर्यन्तानिष्वा तु विधिवत् क्रमात् || " इति । अथ तान् प्रार्थयेत् | चलाचलासनगतां वर्धनीमभिपूज्य, तदनु अत्र मञ्जर्यां SONGSIng “जप्त्वा मन्त्रमघोरशस्त्रमभितः कुड्यं ततो वर्धनी- माचार्यो भ्रमयेत् प्रदक्षिणवशादच्छिन्नया धारया | तन्मार्गेण तथा परः शिवघटं सङ्गृह्य नीत्वा पुनः स्थाने पूर्ववदासने शिवघटं तां वर्धनीं च न्यसेत् || मूलं न्यसेच्छिवघटे तु शिवश्च तस्मिन् पूज्यः स्थिरासनगतः सहिताङ्गमूर्तिः। तारं च पाशुपतशस्त्रमथात्र तोये तम्मिन्नुमां भगवतीमभिपूज्य सम्यक् ।।" लिङ्गमुद्रया शिवकुम्भं स्पृष्ट्वा सव्यया तन्मुष्ट्या वधर्न स्पृशेत् । “सव्यमुष्टिरुमा पिण्डी लिङ्गमङ्गुष्ठको हरः । " इति ब्रह्मशम्भुः | [क्रियापादः एवं भुक्तिकामो मुक्तिकामश्चेत् पूर्वं वर्धनीं पश्चात् घटं स्पृशेत् । उमायै भग (वद् ? )रूपिण्यै लिङ्गरूपधराय च ॥ ३८ ॥ शङ्कराय नमस्तुभ्यमिति स्तुत्यानुमोद्य तु । यज्ञस्यास्य पतिस्त्वं हि शक्तिरेषा तवाचला ॥ ३९ ॥ एष ते ज्ञानखड्गोऽयं तं गृहाण स्वमायुधम् । मया प्रवर्तितश्चायं यज्वनां भवता क्रतुः ॥ ४० ॥ रक्षणीयस्त्वया देव ! समाप्तिर्यावदस्य हि । इत्थं शिवं समभिवन्द्य समर्प्य सम्यक् तं ज्ञानखड्गमथ तावभिपूज्य सम्यक् । कृत्यं च तद्भगवते विनिवेद्य रक्षां विघ्नाधिपं स्वदिशि तत्र यजेद् यथावत् || यः सुरेशाध्वरोऽस्माभिः पश्वनुग्रहहेतवे । प्रवर्तितः प्रयात्वन्तमविघ्नस्तव सन्निधौ ॥ ४२ ॥