पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इति । तद्यथा इति । तद्यथा इात । ईशानशिवगुरुदेवपद्धतौ "तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्माद् यजुस्तस्मादजायत" || इति अस्मिन्नर्थे पुराणेषु ब्राह्मकूर्मादिकेष्वपि । वैष्णवादिषु वाक्यानि सन्ति सृष्टौ प्रजापतेः ॥ ५५ ॥ "गायत्रं च ऋचं चैव त्रिवृत् स्तोमं रथन्तरम् । अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् || यजूंषि त्रैष्टुभं छन्दस्तोमं पश्चदशं तथा । बृहत्साम तथोक्थ्यं च दक्षिणादसृजन्मुखात् | सामानि जागतं छन्दस्तोमं सप्तदशं तथा । बैरूपमतिरात्रं च पश्चिमादसृजन्मुखात् || एकविंशमथर्वणमप्तोर्यामाणमेव च । आनुष्टुभं सवैराजमुत्तरादसृजन्मुखात्" || यचतुर्दशविद्यासु वेदाद्यास्वेकपाठतः । अङ्गीकृतं हि प्रामाण्यं पुराणानां तु वैदिकैः ॥ ५६ ॥ एभिः पुराणवाक्यैस्तदनुमेयार्थबृंहिता । याजुषी श्रुतिरप्यस्ति ऋचां प्राचीति पूर्विका ॥ ५७ ॥ पूर्वादिवजातस्वात् तत्तद्दिङ्नियम श्रुतिः । दृश्यते खळु वेदानां नो चेद्दिनियमः कुतः ॥ ५८ ॥ तत्त्वैः कलादिपृथ्व्यन्तैः शरीरं ब्रह्मणोऽप्यभूत् । तत्त्वानां कारणं माया मायायाश्च महेश्वरः ॥ ५९ ।। मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् । इत्यादिवचनात् कर्ता ब्रह्मणोऽपि महेश्वरः ॥ ६० ॥ सिद्धः स्कन्दपुराणेऽपि दृश्यते देवळस्तवे । “ब्रह्मा भूत्वा जगत् सर्वं सदेवासुरमानुषम् । यत् सृजत्यम्बुमध्यस्थं तस्य ब्रह्मात्मने नमः ॥ " (-> [किनापाद: