आगमप्रामाण्यस्थापनाधिकारः] उत्तरार्धे प्रथमः पटलः । अत्र केचित्तु वेदानामुद्भवं शिववऋतः । अज्ञानात्र सहन्ते यत् तन्न वेदहितावहम् || पदवाक्यार्थ सन्दर्भगर्भा शब्दमयी श्रुतिः । बुद्धिमत्पुरुषोदीर्णा नान्यथैवं प्रदृश्यते ॥ तत्र ह्याप्तप्रणीतत्वं शिष्टस्वी करनिश्चितम् । अनाप्तकर्तृकत्वं च न श्रुतेः श्रूयते क्वचित् || तस्मादत्यन्तमाप्तेन शिवेन श्रुतयोऽखिलाः । प्रणताः सर्वकर्त्रेति प्रमाणं जायते सताम् || " अपिच, इह वेदषडङ्गानां शिक्षादीनां जगत्रये । सिद्धं हि पौरुषेयत्वं सूत्राणां तन्मतेऽपि च ॥ ५० ॥ अङ्गाङ्गिभावसम्बन्धो ह्येकजातिशरीरवान् । अबलाबालगोपालैरपि लोके सुसम्मतः ॥ ५१ ॥ न गजाङ्गैरजः सिध्येनाजाङ्गैर्वा गजो भवेत् । तत्तदङ्गाङ्गिभावाः स्युरेवं सर्वत्र नान्यथा ॥ ५२ ॥ वेदाः प्रमाणमीशेन स्वाप्तेन सुधियोदिताः । स्वाप्तप्रणीताङ्गवत्वात् तादृक् सूत्रादिमत्तया ॥ ५३ ॥ यो यो बुद्धिमदाप्तोक्तैः स्वाङ्गैर्युक्तोऽत्र दृश्यते । आयुर्वेदादयो यद्वदुक्तसाध्यं तथा ततः ॥ ५४ ॥ अपि चात्र स्मृतेः . “अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः | पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥ " इति । न्यायविस्तरमीमांसापुराणस्मृतयः समम् | पठिता वेदसाधर्म्यात् सपक्षत्वेन वैदिकैः ।। मन्वादिभिस्तु निपुणैर्यदाप्तैर्वेदवित्तमैः । सिद्धास्माच्चाप्तयोगीन्द्रबुद्धिमत्कर्तृता श्रुतेः ॥ अत्र वेदः स्वयं प्राह सिसृक्षोरादिपुरुषात् । जन्मैवाखिलचेदानां विस्पष्टं तद्योच्यते ||
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१४
दिखावट